SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोगद्वारसूत्रम् [सू०४३३-४३८] २७५ (सू० ४३३) से किं तं फासगुणप्पमाणे ? फासगुणप्पमाणे अट्ठविहे पण्णत्ते । तं०० - कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे । सेतं फासगुणप्पमाणे । ( सू० ४३४ ) से किं तं संठाणगुणप्पमाणे ? संठाणगुणप्पमाणे पंचविहे पण्णत्ते । तं०-परिमंडलसंठाणगुणप्पमाणे जाव आययसंठाणगुणप्पमाणे । सेतं संठाणगुणप्पमाणे । सेतं अजीवगुणप्पमाणे । ( सू० ४३५ ) से किं तं जीवगुणप्पमाणे ? जीवगुणप्पमाणे तिविहे पण्णत्ते । तंजहाणाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे य । ( सू० ४३६ ) से किं तं णाणगुणप्पमाणे ? णाणगुणप्पमाणे चउव्विहे पण्णत्ते । तं०-पच्चक्खे अणुमा ओवम् आगमे । (सू० ४३७) से किं तं पच्चक्खे ? पच्चक्खे दुविहे पण्णत्ते । तंजहा- इंदियपच्चक्खे योइंदियपच्चक्खे य । ( सू० ४३८) से किं तं इंदियपच्चक्खे ? इंदियपच्चक्खे पंचविहे पण्णत्ते । तंजहासोइंदियपच्चक्खे चक्खुरिंदियपच्चक्खे घाणिंदियपच्चक्खे जिब्भिंदियपच्चक्खे फासिंदियच्चखे । सेतं इंदियपच्चक्खे | एतत् सर्वमपि पाठसिद्धम् । नवरं परिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्र्यसं त्रिकोणं शृङ्गाटकफलवत्, चतुरस्रं समचतुष्कोणम्, आयतं दीर्घमिति । से किं तं जीवगुणप्पमाणे इत्यादि । जीवस्य गुणा ज्ञानादयस्तद्रूपं प्रमाणं जीवगुणप्रमाणम् । तच्च ज्ञान-दर्शन- चारित्रगुणभेदात् त्रिधा । तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम्, तद्यथाप्रत्यक्षमनुमानमुपमानमागमः । तत्र अशू व्याप्तौ (पा० धा० १२६५, का० धा० ४।२२) इत्यस्य धातोरश्रुते ज्ञानात्मना अर्थान् व्याप्नोतीति अक्षो जीवः, अश भोजने (पा० धा० १५२४, का० धा० ८२४३) इत्यस्य वा अश्नाति भुङ्क्ते पालयति वा सर्वार्थानित्यक्षो जीव एव, प्रतिगतम् आश्रितमक्षं प्रत्यक्षमिति, अत्यादयः क्रान्ताद्यर्थे द्वितीयया (पा० वा० १३३६ ) इति समास:, जीवस्यार्थसाक्षात्कारित्वेन यद् ज्ञानं वर्तते तत् प्रत्यक्षमित्यर्थः । अन्ये त्वक्षमक्षं प्रति वर्तत इत्यव्ययीभावसमासं विदधति, तच्च न युज्यते, अव्ययीभावस्य नपुंसकलिङ्गत्वात् प्रत्यक्षशब्दस्य त्रिलिङ्गता न स्यात्, दृश्यते चेयम् - प्रत्यक्षा बुद्धि:, प्रत्यक्षो बोधः, प्रत्यक्षं ज्ञानमिति दर्शनात् । ततो यथादर्शितस्तत्पुरुष एवायम् । तच्च प्रत्यक्षं द्विविधम्- इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च । तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं सहकारिकारणं यस्योत्पित्सोस्तदलैङ्गिकं शब्द-रूप-रस-गन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । इदं चेन्द्रियलक्षणं जीवात् परं व्यतिरिक्तं निमित्तमाश्रित्योत्पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy