________________
श्रीअनुयोगद्वारसूत्रम् (सू०२१०-२१४]
१४७
सेतं एगणामे ।
(सू० २१०) से किं तं दणामे ? दुणामे दुविहे पण्णत्ते । तंजहा- एगक्खरिए य १, अणेगक्खरिए य ।
(सू० २११) से किं तं एगक्खरिए ? एगखरिए अणेगविहे पण्णत्ते । तं जहा- हो: श्री: धी: स्त्री । सेतं एगक्खरिए ।
(सू० २१२) से किं तं अणेगक्खरिए ? अणेगक्खरिए अणेगविहे पण्णत्ते । तंजहाकण्णा वीणा लता माला । सेतं अणेगक्खरिए ।
(सू० २१३) अहवा दुनामे दुविहे पण्णत्ते । तंजहा - जीवनामे य १, अजीवनामे य २ ।
(सू० २१४) से किं तं जीवणामे ? जीवणामे अणेगविहे पण्णत्ते । तंजहा - देवदत्तो जण्णदत्तो विण्हुदत्तो सोमदत्तो । सेतं जीवनामे । जन्तुरात्मा प्राणीत्यादि, आकाशं नभस्तारापथो व्योमाऽम्बरमित्यादि, तथा ज्ञानं बुद्धिर्बोध इत्यादि, तथा रूपं रसो गन्ध इत्यादि, तथा नारकस्तिर्यङ् मनुष्य इत्यादि, एकगुणकृष्णो द्विगुणकृष्ण इत्यादि, तेषां सर्वेषामप्यभिधानानामागम एव निकषो हेमरजतकल्पजीवादिपदार्थस्वरूपपरिज्ञानहेतुत्वात् कषपट्टकस्तस्मिन्नामेत्येवंरूपा संज्ञा आख्या प्ररूपिता व्यवस्थापिता, सर्वाण्यपि जीवो जन्तुरित्याद्यभिधानानि नामत्वसामान्याव्यभिचारादेकेन नामशब्देनोच्यन्त इति भावः । तदेवमिहैकेनाप्यनेन नामशब्देन सर्वाण्यपि लोकरूढाभिधानवस्तूनि प्रतिपाद्यन्त इत्येतदेकनामोच्यते एकं सन्नामैकनामेति कृत्वा इति गाथार्थः । सेत्तं एगणामे त्ति निगमनम् ।
से किं तं दुनामे इत्यादि । यत एवेदं द्विनामाऽत एव द्विविधं द्विप्रकारम्, तद्यथा- एकं च तदक्षरं च, तेन निर्वृत्तमेकाक्षरिकम्, अनेकानि च तान्यक्षराणि च, तैर्निर्वृत्तमनेकाक्षरिकम्, चकारौ समुच्चयार्थो, तत्रैकारिके ह्री: लज्जा देवताविशेषो वा, श्री: देवताविशेष:, धी: बुद्धिः, स्त्री योषिदिति, अनेकाक्षरिके कन्येत्यादि, उपलक्षणं चेदं बलाका-पताकादीनां त्र्याद्यक्षरनिष्पन्ननाम्नामिति । तदेवं यदस्ति वस्तु तत् सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽनेकाक्षरेण वा, अतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामैतदुच्यते, द्विरूपं सत् सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नो: समाहारो द्विनाममिति । ____ एतदेव प्रकारान्तरेणाऽऽह - अहवा दुनामे इत्यादि, जीवस्य नाम जीवनाम, अजीवस्य नाम अजीवनाम । अत्रापि यदस्ति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्या विवक्षितसर्ववस्तुसङ्ग्रहो भावनीयः, शेषं सुगमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org