________________
श्रीअनुयोगद्वारसूत्रम् [सू०७]
(सू० ७) तम्हा आवस्सयं णिक्खिविस्सामि, सुयं णिक्खिविस्सामि, खंधं णिक्खिविस्सामि, अज्झयणं णिक्खिविस्सामि । इदमुक्तं भवति-आवश्यकादिरूपतया प्रकृतशास्त्रस्य निश्चितत्वादावश्यकादिशब्दानामर्थो निरूपणीयः, स च निक्षेपपूर्वक एव स्पष्टतया निरूपितो भवति, अतोऽमीषां निक्षेपः क्रियते। तत्र ११निक्षेपणं निक्षेपो यथासंभवमावश्यकादेर्नामादिभेदनिरूपणम् ।
तत्र जघन्यतोऽप्यसौ चतुर्विध इति नियमार्थमाह- जत्थ य गाहा। व्याख्या- यत्र च जीवादौ वस्तुनि यं जानीयात् निक्षेपं न्यासम्, यत्तदोर्नित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं निक्षिपेत् निरूपयेत् निरवशेष समग्रम्, यत्रापि च न जानीयान्निरवशेषं निक्षेपभेदजालं तत्रापि नाम-स्थापना
११. निक्षेपणं निक्षेप इति कोऽर्थः ? निश्चितः क्षेपो निक्षेपो न्यास इत्यर्थः। कस्य कुत्रेति चेत् ? वाचकस्य शब्दस्य वाच्यार्थे इति गृहाण । किमुक्तं भवति ? विवक्षितः शब्दो वाचकतयाऽस्मिन्नस्मिन्वाच्येऽर्थे न्यस्तः शिष्टपुरुषैरिति प्रतिपादनं निक्षेपः । इदमुक्तं भवति सूत्रगतस्याधिकृतस्य शब्दस्य श्रवणे सति नैकस्यैव कस्यचिदर्थस्य प्रतिपत्तिरपि तु प्रकरणभेदेन नानार्थानां प्रतिपत्तिः । तथाहि- 'धम्मो मंगलमुक्किट्ठमिति सूत्रगतस्य मङ्गलशब्दस्य वाच्यत्वेन 'मङ्गलोऽयं गच्छती ति वाक्ये मङ्गलाख्यदारकस्य, 'भित्तिचित्रे स मङ्गलं पश्यतीति वाक्ये चित्रगतस्य साधोः, महतः कार्यस्य प्रारम्भे वरमिदं मङ्गलमभूद्यत्कन्ययाऽऽनीयमानः पूर्णकलशो दृष्ट इति वाक्ये पूर्णकलशस्य, धम्मो मङ्गलमुक्किट्ठमिति सूत्रवाक्येऽहिंसादिमयस्य धर्मस्य प्रतीतिर्भवतीत्यनुभवसिद्धम्। ततश्च सूत्रगतस्याधिकृतस्य शब्दस्य वाच्यत्वेन प्रकरणभेदेन यावतामर्थानां प्रतिपत्तिर्भवितुं शक्या तावतामर्थानामुल्लेखो यः क्रियते नियुक्तिकृदादिभिः स निक्षेपः कृत इत्येवं व्यवह्रियते। किञ्च तेऽस्तिस्य शब्दस्य निक्षेपा इति व्यवहारो, तस्य शब्दस्य तावन्तो निक्षेपा इत्यपि च व्यवहारोऽत्र ज्ञेयः । एषाञ्च मङ्गलाख्यदारकादीनां क्रमशः नाममङ्गलं, स्थापनामङ्गलं, द्रव्यमङ्गलं, भावमङ्गलमित्याख्या प्रसिद्धा शास्त्रे।
अथ सूत्रगतस्य शब्दस्य प्रकरणलभ्यो योऽर्थः स एव वक्तव्यो नियुक्तिकृदादिभिः, किमर्थं सर्वेषामर्थानां कथनमिति चेदाशङ्का तह-दं समाधानं ज्ञेयं यत्सूत्रगतस्य तस्य शब्दस्य वाच्यत्वेन प्रतीयमानानामर्थानां मध्ये कोऽर्थः प्रकरणलभ्यः कश्च न तथेति निर्णेतुं तत्शब्दवाच्यानां सर्वेषामर्थानामुपस्थितिरपेक्षिता। सा चोपस्थितिरनुल्लेखे तेषां कथं शक्येति सर्वेषामुल्लेखः क्रियत इति। तथा च मङ्गलाख्यदारकादयो ये येऽर्था मङ्गलपदवाच्यास्तेषु तेष्वर्थेषु वाचकतया मङ्गलपदं शिष्टपुरुषैय॑स्तम्-निक्षिप्तमित्यर्थो लभ्यते।
ननु नामादयो निक्षेपा य उच्यन्ते ते कस्य भवन्ति ? आवश्यकेत्यादिवर्णावल्यात्मकस्य वाचकस्य शब्दस्योत सामायिकादिषडध्ययनकलापादिलक्षणस्य तद्वाच्यस्य वस्तुनो वेति । न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org