________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सुयक्खंधा ? अज्झयणं, अज्झयणाई ? उद्देसगो, उद्देसगा ? आवस्सयण्णं णो अंगं, णो अंगाई, सुयक्खंधो, णो सुयक्खंधा, णो अज्झयणं, अज्झयणाई, णो उद्देसगो, णो उद्देसगा। णमिति वाक्यालङ्कारे, किमिति परिप्रश्ने, किमेकं द्वादशाङ्गान्तर्गतमङ्गमिदम् उत बहून्यङ्गानि, अथैक: श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्ना: । तत्र श्रुतस्कन्ध: अध्ययनानि चेदमिति प्रतिपत्तव्यम्, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेया:, अनङ्गादिरूपत्वादिति, एतदेवाह-आवस्सयण्णमित्यादि। ___ अत्राह- नन्वावश्यकं किमङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्रानवकाशमेव, नन्द्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गबाटोत्कालिकक्रमेणानन्तरमेवोक्तत्वादिति, अत्रोच्यते - यत्तावदुक्तं 'नन्द्यध्ययन एवे'त्यादि तदयुक्तम्, यतो नावश्यं नन्द्यध्ययनं व्याख्याय तत इदं व्याख्येयमिति नियमोऽस्ति, कदाचिदनुयोगद्वारव्याख्यानस्यैव प्रथमं प्रवृत्तेः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहाङ्गानङ्गप्रविष्टचिन्तासूत्रोपन्यासेनेति । मङ्गलार्थमवश्यं नन्दिरादौ व्याख्येय इति चेत्, न, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात्तस्य चेहापि कृतत्वादिति । यच्चोक्तम् ‘अत्राप्यङ्गबाटोत्कालिकक्रमेणे'त्यादि तत्रापि समुदितानामुद्देश-समुद्देशाऽनुज्ञाऽनुयोगानां प्रश्नप्रकरणे तदुक्तम्, अत्र तु केवलोऽनुयोग एवाधिकृतः, तत्प्रस्तावे त्विदमेवोक्तम्'इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोगः' इत्यतो भिन्नप्रस्तावत्वात् पृच्छा क्रियते- आवस्सयण्णं किमित्यादि, विस्मरणशीलाल्पबुद्धिमाषतुषादिकल्पसाध्वनुग्रहार्थं वेत्यदोषः ।
तदेवं यस्माद् इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग:' इत्यनेनावश्यकमिति शास्त्रनाम निर्णीतं यस्माच्चाष्टस्वनन्तरोक्तप्रश्नेष्वावश्यकं श्रुतस्कन्धत्वेनाध्ययनकलापात्मकत्वेन च निर्णीतं तस्मात् किमित्याह- तम्हा इत्यादि । यस्मात् प्रस्तुतानुयोगविषयं शास्त्रमुक्तक्रमेणाऽऽवश्यकादिरूपतया निर्णीतं तस्मादावश्यकं निक्षेप्स्यामि, श्रुतं निक्षेप्स्यामि, स्कन्धं निक्षेप्स्यामि, अध्ययनं निक्षेप्स्यामि, दृष्टिवादाख्यस्य चरमाङ्गस्य पूर्वादिमयत्वादिति चेत् ? दृष्टिवादस्य साम्प्रतमुद्देशादयो यतो न प्रवर्तन्तेऽत एव तस्याप्यत्राधिकाराभावादेते प्रश्ना न समुद्भविता इति मन्तव्यम् । ननु तथापि शतकं शतकानि वा ? इति प्रश्नस्तु समुद्भाव्य एव, व्याख्याप्रज्ञप्त्याख्यस्य पञ्चमाङ्गस्य शतकमयत्वादिति चेत् ? न, शतकस्याध्ययनानन्तरत्वात्। ननु तस्य तदनर्थान्तरत्वनिर्णयः कथमिति चेत् ? इत्थं, शतकं शतकानि वा ? इति प्रश्नस्य यदनुद्भावनं तेन, यच्चाध्ययनस्येव शतकस्याप्युद्देशकसमूहमयत्वं, तेन तन्निर्णयः किमशक्यः?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org