________________
श्रीअनुयोगद्वारसूत्रम् [सू०६]
(सू०६) जइ आवस्सयस्स अणुओगो आवस्सयण्णं किमंगं, अंगाइं? सुयक्खंधो,
छावगशब्दः सर्वत्र संबध्यते, ततो मृग-सिंह-कुर्कुटशावो लघु मृगाद्यपत्यम्, तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता, सुहसण्णप्प त्ति सुखप्रज्ञापनीया।
जा खलु अभाविया कुस्सुईहिं न य ससमए गहियसारा ।।
अकिलेसकरा सा खलु वइरं छक्कोडिसुद्धं व ।।५।। (कल्पभा० ३६८) षट्कोणशुद्धं वज्रमिव हीरक इव विशुद्धा या सा खलु ‘अज्ञायकपरिषत्' इति वाक्यशेष:। इदानीं दुर्विदग्धपरिषदुच्यते -
न य कत्थवि निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थिव्व वायपुण्णो फुट्टइ गामिल्लगवियड्ढो ।।६।। [कल्पभा० ३७१] किंचिम्मत्तग्गाही १ पल्लवगाही य २ तुरियगाही य ३ । दुविड्डिया उ एसा भणइ तिविहा इमा परिसा ।। [कल्पभा० ३६९ ]
अत्राद्यपरिषद्वयमनुयोगार्हम्, तृतीया त्वयोग्येति ११ । एतत् सर्वमभिधाय तत: सूत्रार्थो वक्तव्य: १२ इति लेशतो व्याख्यातेयं गाथा। विस्तरार्थिना तु कल्पपीठिकाऽन्वेषणीयेति । एवं चानुयोगस्य द्वादश द्वाराणि वक्तव्यानि भवन्ति । तत्र शेषद्वारोपलक्षणार्थं कस्य शास्त्रस्यायमनुयोग इति सप्तमं द्वारं चेतसि निधाय जइ सुयनाणस्स उद्देसो समुद्देसो इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता- इदं पुन: प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग इति।
पुनरप्याह विनेय:- जइ आवस्सगस्सेत्यादि, यद्यावश्यकस्य प्रस्तुतोऽनुयोग:, तर्हि आवश्यक
१०. आवस्सयण्णं किमंगं ? इत्यादि । ननु श्रुतमङ्गरूपं भवति, यद्वाऽङ्गकलापरूपं भवति, एवं श्रुतस्कन्धरूपं, श्रुतस्कन्धकलापरूपं, अध्ययनरूपं, अध्ययनकलापरूपं, उद्देशकरूपं उद्देशककलापरूपं वा भवति। ततश्च श्रुतस्यैतेभ्योऽष्टरूपेभ्यो विवक्षितं शास्त्रं किंस्वरूपमिति निर्णयार्थमेते प्रश्ना इति ज्ञायते। परंतु त्रिषष्टिशलाकापुरुषचरित्रादीनां शास्त्राणां पर्वसर्गकलापात्मकत्वात् पर्व वा ? पर्वाणि वा ? सर्गो वा सर्गा वा ? इत्यादिप्रश्ना अपि किं न समुद्भाविताः ? पर्वादीनामपि श्रुतरूपत्वादिति चेत् ? येषामुद्देशादयः प्रवर्तन्ते तेषामेवानुयोगस्य प्रस्तुतत्वात्ते प्रश्ना न समुद्भाविता इति गृहाण। ततश्च नन्दीसूत्रोक्तानामङ्गप्रविष्टादीनामेव शास्त्राणां यत उद्देशादयो योगोद्वहनं च प्रवर्तन्ते नान्येषां शास्त्राणामतस्तेषामेवानुयोगस्य प्रस्तुतत्वं, तेषामेव च श्रुतज्ञानत्वेनात्र विवक्षा। तेषां चाङ्गाद्यष्टस्वरूपत्वादष्टावेव प्रश्ना अत्र समुद्भाविता इति ज्ञायते। ननु तर्हि पूर्वं पूर्वाणि वा ? प्राभृतं प्राभृतानि वा? प्राभृतप्राभृतं प्राभृत-प्राभृतानि वा ? इति प्रश्नाः किमर्थं न समुद्भाविता?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org