________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं देसकुलजातिरूवी संघयण-धिईजुओ अणासंसी।
अविकंथणो अमाई थिरपरिवाडी गहियवक्को ।।१।। 'थिरपरिवाडि'त्ति अविस्मृतसूत्रः। जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू ।
आसन्नलद्धपइभो नाणाविहदेसभासण्णू ।।२।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू ।
आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ।।३।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो।
गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥४।। (कल्पभा० २४१-२४४) सिवो त्ति मन्त्रादिसामर्थ्यादुपशमितोपद्रवः, युक्त: उचित: प्रवचनसारं परिकथयितुम् ६। तथा अयमनुयोग: कस्य शास्त्रस्यैवंभूतेन गुरुणा कर्त्तव्य इत्यपि वाच्यम् ७ । तथा तद्दारत्ति तस्य अनुयोगस्य द्वाराणि उपक्रमादीन्यत्रैव वक्ष्यमाणस्वरूपाणि वाच्यानि ८। तथा भेदत्ति तेषामेव द्वाराणामानुपूर्वी-नाम-प्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्य: ९। तथाऽनुयोगस्य लक्षणं वाच्यम्, यदाह - संघिया य पदं चेव, पयत्थो पयविग्गहो ।
चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥१।। (कल्पभा० ३०२) पसिद्धित्ति चालनायां सत्यां प्रसिद्धिः समाधानम्, 'विद्धि'त्ति जानीहि । व्याख्येयसूत्रस्य वा अलियमुवघायजणयं (कल्पभा० २७८-२८१, आवश्यकनि० ८८१-८८४) इत्यादिद्वात्रिंशद्दोषरहितत्वादिकं लक्षणमत्र वक्तव्यम् १० ।
तथा तस्यैव अनुयोगस्य अर्हा योग्या परिषद्वक्तव्या, सा च सामान्यतस्त्रिधा भवति, तद्यथाजाणंतिया अजाणंतिया य तह दुब्वियड्डिया चेव । तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं ॥१॥ गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमएसु । सा खलु जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ।।२।। खीरमिव रायहंसा जे घुटुंती गुणे गुणसमिद्धा । दोसे वि य छड्डेत्ता(न्ता ?) ते वसभा धीरपुरिसत्ति ।।३।। इति ज्ञायकपरिषत् । जे हुंति पगइमुद्धा मिगछावग-सीह-कुक्कुडगभूया । रयणमिव असंठविया सुहसण्णप्पा गुणसमिद्धा ॥४॥ (कल्पभा० ३६४-३६७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org