________________
श्रीअनुयोगद्वारसूत्रम् [सू०५]
निक्खेवेगट्ठ निरुत्त विहि पवित्ती य केण वा कस्स ? । तद्दार भेय लक्खण तदरिहपरिसा य सुत्तत्थो ।।१।। (कल्पभा० १४९, दशवै०नि० ५) अस्या विनेयानुग्रहार्थं व्याख्या- इहानुयोगस्य निक्षेपो नाम-स्थापनादिको वक्तव्य: १ ।
तथाऽनुयोगस्यैकार्थिकानि वक्तव्यानि, यदाहअणुओगो य निओगो भास विभासा य वत्तियं चेव। एते अणुओगस्स य नामा एगट्टिया पंच ॥१।। (आवश्यकनि० १३१, कल्पभा० १८७) २।
तथाऽनुयोगस्य निरुक्तं वक्तव्यम्, तद्यथा- स्वाभिधायकसूत्रेण सहार्थस्य अनुनियत: अनुकूलो वा योग: अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्य: प्रतिपादनमनुयोग:, सूत्रार्थकथनमित्यर्थः, अथवा एकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्, सूत्रं त्वणु, ततश्चाणुना सूत्रेण सहार्थस्य योगो अणुयोग:, तदुक्तम् -
निययणुकूलो जोगो सुत्तस्सऽत्थेण जो य अणुयोगो। सुत्तं च अणुं तेणं जोगो अत्थस्स अणुओगो ॥१॥ ( ) ३ ।
तथाऽनुयोगस्य विधिर्वक्तव्यः, यथा प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि निर्युक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागत: सर्वोऽप्यर्थो वाच्यः, तदुक्तम् -
सुत्तत्थो खलु पढमो बीओ निजुत्तिमीसतो भणितो । तइओ य निरवसेसो एस विही होइ अणुओगे ।।१।। (आवश्यकनि० २४) इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिङ्मात्रत्वादस्येति ४।।
तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यम्, तत्रोद्यमी सूरिरुद्यमिन: शिष्या: १, उद्यमी सूरिरनुद्यमिन: शिष्या: २, अनुद्यमी सूरिरुद्यमिन: शिष्या: ३, अनुद्यमी सूरिरनुद्यमिन: शिष्या: ४ इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीय-तृतीययोस्तु काचित् कथञ्चिद्भवत्यपि ५।
तथानुयोग: केन कर्त्तव्य इति तद्योग्य: कर्ताऽभिधानीयो, यदाहकस्यास्वाध्यायस्य बाधकत्वाभावः कथितः। एते च प्रश्नोत्तरे यदि केवलसूत्रविषयिण्येव मन्येयातां, तदाऽनुयोगवाचनादावस्वाध्यायाभावः सिध्येदेव । तथाप्येतन्निश्चयस्तु श्रमणसचेनैव कर्तव्यः, साम्प्रतमस्वाध्यायकाले निर्युक्त्यादिस्वाध्यायवर्जनस्यापि प्रायः सर्वत्र दृश्यमानत्वात् । अत्रोक्तयोः प्रश्नोत्तरयोाख्यानविषयत्वसम्भावनाच्च। सूत्रवाचनेन सह व्याख्यानस्यापि क्रियमाणत्वात्, व्याख्याने च क्रियमाणे तस्यैव प्राधान्यात्। ततश्च कल्पसूत्रव्याख्यानेऽप्यस्वाध्यायविचारस्य कर्तव्यत्वसिद्धेरनुयोगवाचनादावपि तस्य सिध्यमानत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org