________________
१२
आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटप्पणीसमेतं
पवत्तइ, उक्कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । इमं पुण पट्टणं पडुच्च उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तर |
( सू० ५) जइ उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तड़, किं आवस्सस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? आवस्सगवइरित्तस्स उद्देस सो अण्णा अणुओगो य पवत्तइ ? आवस्सस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्त, आवस्सगवइरित्तस्स वि उद्देसो समुद्देसो अणुण्णा अणुयोगो य पवत्त । इमं पुण पट्टवणं पडुच्च आवस्सगस्स अणुओगो ।
पुन: प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम् ।
उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति - जइ उक्कालियस्से - त्यादि, यद्युत्कालिकस्योद्देशादिस्तत् किमावश्यकस्यायं प्रवर्त्तते उताऽऽवश्यक - व्यतिरिक्तस्य ?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः श्रावकैश्चोभयसन्ध्यमवश्यं करणादावश्यकं सामायिकादिषडध्ययनकलाप:, तस्मात्तु व्यतिरिक्तं भिन्नं दशवैकालिकादि, गुरुराह - आवस्सगस्स वीत्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किन्त्विदं प्रकृतं प्रस्थापनं प्रारम्भ प्रतीत्यावश्यकस्यानुयोगो नेतरस्य सकलसामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देश-समुद्देशा -ऽनुज्ञास्त्वावश्यकस्य प्रवर्त्तमाना अप्यत्र नाधिकृताः, अनुयोगावसरत्वात्, अतस्तत्परिहारेणोक्तम् - अणुओगो त्ति, अयमत्र भावार्थ:- अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथा
"
स्योच्यते तस्य सूत्रस्वाध्याय एव सम्भवात्, गणधरादिसन्दृब्धसूत्राणामेव मन्त्राक्षरगर्भितत्वात्, न तु निर्युक्ति-भाष्य-चूर्णि-वृत्तिलक्षणानुयोगस्वाध्याये, निर्युक्त्यादीनां तदगर्भितत्वात्, अत एव ओघनिर्युक्तिवृत्तौ (२०४ ) - जइ रत्तिं आगया ताहे कालं न गिण्हंति, निज्जुत्तीओ संगहणीओ य सणिअं गुणंति इत्युक्तम् । कियदन्तरे च जइ पुण कालभूमी पडिलेहिआ ताहे कालं गिण्हंति, यदि सुद्धो कालो, करेंति सज्झायं, अह न सुद्धो, न पडिलेहिआ वा वसही तानिज्जुत्तीओ गुणिति इत्युक्तम् । तथा, कल्पसूत्रे वाच्यमाने पार्श्वेऽस्वाध्यायो भवेत्तदपनयनं च कर्तुं न शक्यते तदा तद्वाचनं शुद्धयति न वेति प्रश्नोऽत्रोत्तरं पार्श्वेऽस्वाध्यायो भवति तथाप्यवश्यकरणीयत्वात्कल्पसूत्रवाचनं शुद्ध्यतीति ।। सेनप्रश्न-तृतीयोल्लासे १८९ तमः प्रश्नः ।। एतद्वचनमनुसृत्यैव सकलागमरहस्यवेदिभिः श्रीमद्दानसूरिभिः गुर्जरभाषानिबद्धे विविधप्रश्नोत्तरग्रन्थे द्वितीये खण्डे (प्रश्न- १६१) कल्पसूत्रवाचनस्यावश्यकरणीयतया तत्र सूर्यग्रहणनिमित्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org