________________
श्री अनुयोगद्वारसूत्रम् [सू०३]
११
अंगपविट्ठस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तड़ ? अंगबाहिरस्स उद्देसो समुद्देस अणुण्णा अणुओगो य पवत्तइ ? अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्त, अंगबाहिरस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । इमं पुण पट्टवणं पडुच्च अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ।
(सू० ४) जइ अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? उक्कालियस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? कालियस्स वि उद्देसो समुद्देसो अणुण्णा अणुओग प्रविष्टम् अन्तर्गतमङ्गप्रविष्टं श्रुतम् आचारादि, तद्वाह्यं तु उत्तराध्ययनादि, अत्र गुरुर्निर्वचनमाहअंगपविट्ठस्स वीत्यादि, अपिशब्दौ परस्परसमुच्चयार्थी, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्त्तते, तद्बाह्यस्यापि, इदं पुन: प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्य आश्रित्याङ्गबाह्यस्य प्रवर्त्तते नेतरस्य आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः ।
अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह- जइ अंगबाहिरस्सेत्यादि, यद्यङ्गबाह्यस्योद्देशादिः तर्हि किमसौ कालिकस्य प्रवर्त्तते उत्कालिकस्य वा ? द्विधाऽप्यङ्गबाह्यस्य संभवादिति भावः, तत्र ९दिवस - निशा प्रथम - चरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम् उत्तराध्ययनादि, यत्तु कालवेलामात्रवर्जं शेषकालानियमेन पठ्यते तदुत्कालिकम् आवश्यकादि । अत्र गुरुः प्रतिवचनमाह- कालियस्स वीत्यादि, कालिकस्याप्यसौ प्रवर्त्तते, उत्कालिकस्यापि इदं
९. दिवसनिशाप्रथम...इत्यादि । सूत्रापेक्ष एवायं नियमो ज्ञेयः, न त्वनुयोगापेक्षोऽपि तस्य द्वितीय-तृतीयपौरुष्योरप्यनुज्ञानात् । नन्वनुयोगे प्रवर्तमानेऽन्तराऽन्तरा सूत्रमपि पठनीयं स्यादेव, सूत्रेण विनाऽनुयोगस्यासम्भवात् । तथा च सूत्रापेक्षोऽपि स नियमो ध्वस्त एवेति चेत् ? न, केवलस्य सूत्रस्य वाचनादावेव तस्य नियमस्य चरितार्थत्वात् । अनुयोगे त्वर्थस्यैव प्राधान्यात् क्वचित् किञ्चित् सूत्रपाठेऽपि न दोषः, गौणत्वात् । अत एव न तत्र कालग्रहणस्वाध्यायप्रस्थापनादिविधिरपि क्रियते । इत्थञ्च कालग्रहणादिविधेः सूत्रसंलग्नत्वात्, कालिकसूत्रस्य च द्वितीयतृतीयपौरुष्योरननुज्ञानान्नार्धरात्रिकं (अधरत्ति) कालग्रहणं कालिकसूत्रयोगोद्वहने शास्त्रसम्मतमिति ज्ञायते । साम्प्रतं तु तदपि कदाचिद् गृह्यमाणं दृश्यत इति ध्येयम् ।
ननु कालग्रहणादिविधिः सूत्रवाचनादावेवापेक्षते, न त्वनुयोगवाचनादौ । दिवसनिशाप्रथमचरमपौरुषीलक्षणकालनियमोऽपि कालिकसूत्रवाचनादावेवापेक्षितः, न तु तदनुयोगवाचनादौ । ततश्चास्वाध्यायविचारोऽपि सूत्रवाचनादावेव कर्तव्यः स्यान्नत्वनुयोगवाचनादाविति चेत् ? सत्यं, उच्चार्यमाणाक्षरश्रवणस्खलितदेवकृतच्छलनादिरूपो यो दोषोऽस्वाध्यायकाले स्वाध्यायकरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org