SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ३) जइ सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं किं भणामि ? ' ततो गुरुराह - 'वन्दित्वा प्रवेदय', ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति- 'भवद्भिर्ममानुयोगोऽनुज्ञातः', इच्छाम्यनुशास्तिम्' । ततो गुरुर्वदति - 'सम्यग् धारय अन्येषां च प्रवेदय', अन्येषामपि व्याख्यानं कुर्व्वित्यर्थः । ततो वन्दतेऽसौ वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणा च ‘भवद्भिर्ममानुयोगोऽनुज्ञातः' इत्याद्युक्तिप्रत्युक्तिर्द्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरः स्थितश्च विनेयो वदति - 'युष्माकं प्रवेदितम्, सन्दिशत साधूनां प्रवेदयामि' इत्यादि, शेषमुद्देशविधिवद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं कायोत्सर्गं करोति, तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति, तदन्ते च वन्दते, पुनः प्रदक्षिणयति, एवं तिम्रो वारा:, ततो गुरोर्दक्षिणभुजासन्ने निषीदति, ततो गुरुपारम्पर्यागतानि मन्त्रपदानि गुरुः तिम्रो वाराः शिष्यस्य कथयति, तदनन्तरं यथोत्तरं प्रवर्द्धमानाः प्रवरगन्धमिश्रास्तिस्रोऽक्षमुष्टीस्तस्मै ददाति, ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य यथासन्निहितसाधुभिः सह तस्मै वन्दनकं ददाति, ततो विनेयो स्थि नाणं पंचविहं पण्णत्तमित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यात उत्तिष्ठति, गुरुरेव पुनस्तत्र निषीदति, ततो द्वावप्यनुयोगविसर्गार्थं कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्गं कुरुत:, ततः शिष्यो निरुद्धं प्रवेदयते, निरुद्धं करोतीत्यर्थः । एवं श्रुतस्यैव उद्देशादयः प्रवर्त्तन्ते, न शेषज्ञानानाम्, अत्र चानुयोगेनैवाधिकारो न शेषैः, अनुयोगद्वारविचारस्यैवेह प्रक्रान्तत्वाद् । १० " अत्र यथाभिहितमुपजीव्याह शिष्यः 'यदीत्यादि, यद्युक्तक्रमेण श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्त्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्त्तते, उताङ्गबाह्यस्येति ?, तत्राङ्गेषु बृहत्कल्पदिने (पर्युषणाख्याष्टाह्निकायाश्चतुर्थदिने) प्रातः सम्यग् वसतिः शोधनीया, तदनुगुरूणां स्थापनागुरूणां वा पुरः प्रवेदनीया, पश्चात् श्रीवत्साकारधारिस्थापनाचार्यनवकं वा स्थापनाचार्यपञ्चकं वा महत्यासने कम्बल्यादौ वा संस्थाप्य तत्पुरोऽनुयोगः प्रारभ्यते । तद्यथा ईरियापथिकी प्रतिक्रम्यते, ततः क्षमाश्रमणेन मुखवस्त्रिका प्रतिलिख्यते, ततो वन्दनद्विकं दीयते, तत इच्छाकारेण संदिसह भगवन् ! अनुयोग आढवुं ? इच्छं पुनः क्षमाश्रमणेन, इच्छाकारेण संदिसह भगवन् ! अनुयोग आढावणी काउस्सग्ग करूं ? इच्छं, अनुयोग आढावणी करेमि काउस्सग्गमित्यादिना पाठेन नमस्कारेण कायोत्सर्गः (अष्टोच्छ्वासमानः कायोत्सर्गः क्रियते) पारयित्वा च प्रगटनमस्कारकथनेनाविधेर्मिथ्यादुष्कृतं दीयते चेत्यनुयोगः प्रभाते दिनपञ्चके यावत्प्रत्यहं गृह्यते सन्ध्यायां व्याख्यानानन्तरं च दिवसचरिमप्रत्याख्यानं विधाय पूर्वविधिनैव प्रतिक्रमणात् प्राक् इच्छाकारेण संदिसह भगवन् अनुयोग पडिक्कमुं ? इच्छं, पुनः क्षमाश्रमणेन इच्छाकारेण संदिसह भगवन् ! अनुयोग पडिक्कमावणी काउस्सग्ग करूं ? इत्यादिना तेनैव विधिनाऽनुयोगः प्रतिक्रम्यतेऽविधेर्मिथ्यादुष्कृतं च ( दीयते) इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy