________________
श्री अनुयोगद्वारसूत्रम् [सू०२]
'इदानीमनुयोगविधिरुच्यते तत्रानुयोगो वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याचार्यपद - स्थापनायोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधिः - प्रशस्तेषु तिथि - नक्षत्र - करण - - मुहूर्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं प्रमार्ण्य एका गुरूणामेका त्वक्षाणामिति निषद्याद्वयं क्रियते, ततः प्राभातिकका प्रवेदिते निषद्यानिषण्णस्य गुरोश्चोलपट्टक- रजोहरण-मुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिकां प्रत्युपेक्षयतः, तया च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्त्वा वदति- 'इच्छाकारेण संदिशत, स्वाध्यायं प्रस्थापयामि, ततश्च द्वावपि स्वाध्यायं प्रस्थापयत:, ततः प्रस्थापिते स्वाध्याये गुरुर्निषीदति, ततः शिष्यो द्वादशावर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्गं करोति, ततो गुरुर्निषीदति, ततस्तं शिष्यो द्वादशावर्त्तवन्दनकेन वन्दते, ततो गुरुरक्षानभिमन्त्रयोत्तिष्ठति, उत्थाय च निषद्यां पुरतः कृत्वा वामपार्श्वीकृतशिष्यश्चैत्यवन्दनं करोति, ततः समाप्ते चैत्यवन्दने पुनः गुरुरूर्ध्वस्थित एव नमस्कारपूर्व्वं नन्दिमुच्चारयति, तदन्ते चाभिधत्ते - 'अस्य साधोरनुयोगमनुजानामि, क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैरनुज्ञात:' । ततो विनेयश्छोभवन्दनकेन वन्दते, उत्थितश्च ब्रवीति - 'संदिशत एवानुयोगदानमप्युपलक्षणादनुज्ञातमेवेति मन्तव्यम् । न चैवं 'इच्छकारी भगवन् ! तुम्हे अम्हं सव्वं अणुओगं अणुजाणह' इति शिष्यवचनस्य 'अणुजाणामि' इति गुरुत्तरस्य चानुपपत्तिः, तत्तत्सूत्रानुयोगस्य पूर्वमेवानुज्ञातत्वादिति वाच्यं, 'सर्वान् अनुयोगान् अनुजानीत' इत्यादेः 'सर्वान् अवशिष्टान् अनुयोगान् अनुजानीत' इत्याद्यर्थकत्वकल्पनादिति । यद्वा पूर्वमुपलक्षणादेव तदनुज्ञा दत्ता, साक्षादक्षरैस्तु न दत्ता, अतस्तद्दानार्थं 'सर्वान् अनुयोगान्..' इत्युच्यते । ततश्च यथाश्रुतार्थकरणेऽपि न दोष इति । ततश्च पन्यासपदप्रदानावसर एकयैव हेलया सर्वानुयोगानुज्ञेति पूर्वकालीना सामाचारी, तत्तत्सूत्रानुज्ञाऽवसरे निर्युक्त्यादिकमनुसृत्य तत्तत्सूत्रानुयोगकरणानुज्ञेति तु सम्प्रति प्रवर्तमाना सामाचारीति कल्पने दोषाभाव इत्यस्माकमाभाति ।
८. इदानीमनुयोगविधिरुच्यत इति । नन्वनुयोगविधिरिति कोऽर्थः ? अनुयोगानुज्ञाविधिरिति, न त्वनुयोगग्रहणविधिरिति, तस्य मज्जणणिसेज्जअक्खा इत्यादि क्रमेण प्रसिद्धत्वाद्, अधीतसूत्राणां सर्वेषां शिष्याणां तत्राधिकाराद्, अत्र त्वाचार्यपदप्रस्थानयोग्यस्यैव शिष्यस्याधिकारादिति । तथा चेदमपि ज्ञायते यद्वाचनादिक्रमेण स्थिरपरिचितसूत्राणां सर्वेषां शिष्याणां यथा सूत्रदानेऽनुयोगाऽऽदाने चानुज्ञा, न तथा गृहीतानुयोगानां सर्वेषां शिष्याणामनुयोगदानेऽनुज्ञा, किन्तर्हि ? आचार्यपदप्रस्थानयोग्यस्यैव शिष्यस्य तदनुज्ञेति । ननु सूत्रादानप्रदानकाले यथा कालग्रहणादिविधिस्तथानुयोगादानप्रदानकाले कोऽपि विधिर्भवति न वेति चेत् ? भवत्येव । श्रीकल्पसूत्रस्य कल्पलताख्यायामन्तर्वाचनायां महोपाध्यायश्रीगुणविजयगणिना स विधिरेवं कथितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org