________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं 'कुरु' इति, तत: पुनरपि वन्दनकं ददाति ७ । एतानि सप्त छोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, तत: प्रत्युत्थितोऽभिधत्ते- 'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छसितात्' इत्यादि यावद् 'व्युत्सृजामि' इति, तत: कायोत्सर्गस्थित: सप्तविंशतिमुच्छ्वासांश्चिन्तयति, सागरवरगम्भीरा इति यावच्चतुर्विंशतिस्तवं चिन्तयति इत्यर्थः, उद्देससमुद्देसे सत्तावीसं अणुण्णवणयाए (जीतक० गा० २२) इति वचनात्, तत: पारितकायोत्सर्ग: संपूर्णं चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद् गुरो: छोभवन्दनकं ददाति, तच्च न श्रुतप्रत्ययम्, किं तर्हि ?, श्रुतदातृत्वादिना गुरु: परमोपकारीति तद्विनयप्रतिपत्तिनिमित्तमिति । अङ्गादिसमुद्देशेऽप्येवमेव विधिर्वक्तव्य:, नवरं पूर्वं प्रवेदिते ‘योगं कुरु' इत्युक्तम्, अत्र तु स्थिरपरिचितं कुरु' इति वदति, योगोत्क्षेपकायोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेष: सप्तवन्दनकादिको विधिस्तथैव । अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्ज: सर्वोऽप्युद्देशविधिवद्वक्तव्यः, नवरं प्रवेदिते गुरुर्वदति- 'सम्यग् धारयान्येषां च प्रवेदय', अन्यानपि पाठयेत्यर्थः। आवश्यकादिषु तन्दुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापन योगोत्क्षेपकायोत्सर्गश्च न क्रियते, एवं सामायिकाद्यध्ययनेषूद्देशकेषु च चैत्यवन्दन-प्रदक्षिणात्रयादिविशेषक्रियारहित: सप्तवन्दनकप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ता: समुपलभ्यन्ते, न च तथोपलभ्य सम्मोहः कर्त्तव्यः, विचित्रत्वात् सामाचारीणामिति। अनधीतसूत्रकृताङ्गाद्यनुयोगस्य तु चालनाप्रत्यवस्थानासम्भवात् सूत्रस्योपदेशपदप्रसिद्धपदार्थाख्यो यो यथाश्रुतोऽर्थस्तत्कथनसम्भवेऽपि वाक्यार्थादिकथनासम्भव एव, ततश्चानुयोगस्य न्यूनतैव स्यात्। किञ्च निश्चयव्यवहारनयादिविनियोजनासम्भवात् श्रोतुस्तद्विषयकस्य भ्रमस्यापि सम्भवः स्यादेवेति न तस्यानुयोगदानानुज्ञा । अत एवाधीतसूत्रकृताङ्गाद्यनुयोगस्यापि यस्य साधोस्तादृक्प्रतिभाशून्यत्वेन पूर्वापरानुसन्धानासम्भवात् न चालनादिस्फुरणं, तस्यापि नानुयोगदानानुज्ञा । केवलं तादृक्प्रतिभावतः, अत एव चाचार्यपदप्रस्थानार्हस्यैव सर्वानुयोगाध्ययनानन्तरमेकयैव हेलया तदनुज्ञा दीयते। 'प्रतिपद्य चरणधर्म, अधीत्य विधिवत्सूत्रम्, समधिगम्य तत्परमार्थम्, विज्ञाय स्व-परसमयरहस्यं, तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम्' (पृ.१) इत्युक्तवद्भिर्वृत्तिकारैः श्रीमद्भिर्हेमचन्द्रसूरिभिरप्येतत्सूचितमेव । तदनुज्ञानन्तरं स साधुरनुयोगाचार्यः कथ्यते ।
यद्यपि साम्प्रतं पन्न्यासपदानारूढा अप्युदूढकल्पसूत्रयोगा महात्मानः पर्युषणापर्वणि कल्पसूत्रव्याख्यानं कुर्वन्तीति दृश्यते । तथाऽऽवश्यकादेरनुयोगं कुर्वाणा अपि दृश्यन्ते । अतोऽनुयोगदाने समर्थस्य शिष्यस्य पन्न्यासपदात्प्रागपि गृहीतानुयोगस्य तत्तत्सूत्रस्यानुयोगकरणमनुज्ञातमेवेति मन्तव्यमित्यपि केचित्। तेषां च मते तत्तत्सूत्रानुज्ञाप्रदानावसर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org