________________
श्रीअनुयोगद्वारसूत्रम् [सू०२] 'इदं पुन: प्रस्थापनं प्रतीत्य अस्य साधोरिदमङ्गममुं श्रुतस्कन्धम् इदमध्ययनं वा उद्दिशामि, क्षमाश्रमणानां हस्तेन सूत्रमर्थ: तदभयं च उद्दिष्टम्' इत्येवं वदति, क्षमाश्रमणानाम्' इत्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते। ततो विनेय इच्छामी'ति भणित्वा वन्दनकं ददाति २ । तत उत्थितो ब्रवीति'संदिशत किं भणामि' इति, ततो गुरुर्वदति- वन्दित्वा प्रवेदय' इति, ततो विनेय ‘इच्छामि' इति भणित्वा वन्दनकं ददाति ३ । तत: पुनरुत्थितः प्रतिपादयति- ‘भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्तिम्', ततो गुरुः प्रत्युत्तरयति ‘योगं कुरु' इति, एवं सन्दिष्टो विनेय ‘इच्छामि' इति भणित्वा वन्दनकं ददाति ४, ततोऽत्रान्तरे नमस्कारमुच्चारयन्नसौ गुरुं प्रदक्षिणयति, तदन्ते च गुरोः पुरत: स्थित्वा पुनर्वदति- ‘भवद्भिर्ममामुकं श्रुतमुद्दिष्टम्, इच्छाम्यनुशास्तिम्', ततो गुरुराह- ‘योगं कुरु' इति, एवं च संदिष्ट 'इच्छामि' इति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरु-शिष्ययोर्वचन-प्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः, एतानि च चतुर्थवन्दकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति । ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, निषण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति - ‘युष्माकं प्रवेदितम्, संदिशत, साधूनां प्रवेदयामि', ततो गुरुराह - ‘प्रवेदय' इति, तत ‘इच्छामि' इति भणित्वा विनेयो वन्दनकं ददाति ५ । प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कार: पुनर्वन्दनकं ददाति ६ । पुनरुत्थितो वदति 'युष्माकं प्रवेदितम्, साधूनां प्रवेदितम्, सन्दिशत करोमि कायोत्सर्गम्', ततो गुरुरनुजानीतेचालनाप्रत्यवस्थानादिपूर्व प्रसङ्गानुप्रसङ्गतो विस्तरपूर्वं यदनुयोगदानं तस्य त्वनुज्ञा सर्वस्याप्यनुयोगस्यैकयैव हेलया पन्न्यासपदप्रदानावसरे दीयते । पन्न्यासपदप्रदानस्य यो विधिः स एवानुयोगानुज्ञाविधिज्ञेयः ।
नन्वेकयैव हेलयेति किमर्थम् ? यथा सम्यगधीताचाराङ्गसूत्रस्य साधोस्तत्सूत्रदानानुज्ञापि क्रियते, तथा सम्यगधीततदनुयोगस्य साधोस्तदनुयोगदानानुज्ञाऽपि कर्तव्यैवेति चेत् ? न, तदनुयोगदानसामर्थ्याभावात् । अयम्भावः अनधीतसूत्रकृताङ्गादिसूत्रोऽपि स्थिरपरिचिताचाराङ्गसूत्रः साधुराचाराङ्गसूत्रदाने समर्थो भवत्येव, सूत्रकृताङ्गादिसूत्रलेशस्यापि तत्रानपेक्षणात् । परन्तु सम्यगधीताचाराङ्गानुयोगोऽपि साधुः सूत्रकृताङ्गाद्यनुयोगाध्ययनं विनाऽऽचाराङ्गसूत्रस्याप्यनुयोगदाने समर्थो न भवत्येव, सूत्रकृताङ्गाद्यनुयोगापेक्षणात्। तथाहि- आचाराङ्गे क्वचित् किञ्चिद्यदुक्तमापातदृष्ट्या तद्विपरीतमेव क्वचित् सूत्रकृताङ्गादिसूत्रे कथितं स्यादिति नासम्भवि । ततश्च गृहीतसूत्रकृताङ्गाद्यनुयोगस्यैव साधोः 'आचाराङ्गसूत्र एवमुक्तं, सूत्रकृताङ्गादिषु त्वन्यथा, तथा च कथं न मिथो विरोधः ?' इति प्रश्नात्मिका चालनोद्भवति, 'आचाराङ्गे यदुक्तं तन्निश्चयनयाभिप्रायेण, अन्यत्र तु यदुक्तं तद्व्यवहारनयाभिप्रायेण... यद्वाऽऽचाराङ्गोक्तिरुत्सर्गविषयिणी, अन्यसूत्रोक्तिस्त्वपवादविषयिणी इत्यादि प्रत्यवस्थानं च स्फुरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org