________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं शिष्येण अहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथा कृत्वा गुरोर्निवेदिते सम्यगिदं धारयाऽन्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा । सुयणाणस्सेत्यादि, श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्त्तते।। __ तत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थं किञ्चिद्विस्तरत उच्यतेतत्राऽऽचाराद्यङ्गस्य उत्तराध्ययनादिकालिकश्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधि:- इहाऽऽचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति यो विनेय: स: स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति- 'भगवन् ! अमुकं मम श्रुतमुद्दिशत' । गुरुरपि भणति- ‘इच्छामः' इति, ततो विनेयो वन्दनकं ददाति १ । ततो गुरुरुत्थाय चैत्यवन्दनं करोति, तत ऊर्ध्वस्थितो वामपार्कीकृतशिष्यो योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छ्वासमानं कायोत्सर्गं करोति, चंदेसु निम्मलयरे'ति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः, तत: पारितकायोत्सर्ग: संपूर्णं चतुर्विंशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारं वारत्रयमुच्चार्य 'नाणं पञ्चविहं पण्णत्त'मित्यादि उद्देशनन्दी भणति, तदन्ते च
६. अहीनादिलक्षणोपेतेऽधीत इत्यादि । हीनाक्षरादिदोषोपेतं यथा स्यात्तथाऽधीतेऽपि सूत्रे यदि गुरुणा स्थिरपरिचितं कुर्विदमिति समुद्देशः क्रियते, तदा शिष्यस्य तथैव दोषोपेतं सूत्रं स्थिरपरिचितं भवति । ततश्चानुज्ञापि यदि दीयते गुरुणा तदा तेन शिष्येण स्वशिष्यपरंपरायै तथैव दोषोपेतस्य सूत्रस्य दीयमानत्वाद् दोषोपेतस्यैव सूत्रस्य परंपरेति सूत्रनाशाख्यो महान् दोषः स्यात्। तन्निवारणार्थमयं क्रमो मन्तव्यः। गुरूद्दिष्टं सूत्रं वाचनापृच्छनाख्यस्वाध्यायद्वयेनाहीनादिलक्षणोपेतं यथा स्यात्तथाऽध्येतव्यं शिष्येण । तथाऽधीते सूत्रे शिष्यो गुरुं निवेदयति। ततश्च गुरुः शिष्येणोच्चार्यमाणं सूत्रं शृणोति । अहीनादिलक्षणोपेतत्वं यदि प्रतीयते, तदा गुरुः स्थिरपरिचितं कुर्विदमिति समुद्दिशति । ततश्च परावर्तनाख्यस्वाध्यायेन शिष्यस्तत्सूत्रं तथैव स्थिरपरिचितं करोति। अहीनादिलक्षणोपेतं यथा स्यात्तथा स्थिरपरिचिते सूत्रे गुरुस्तस्य शिष्यस्य स्वशिष्यपरंपरायै तत्सूत्रदानमनुजानाति। तथा चाहीनादिलक्षणोपेतस्यैव सूत्रस्य परंपरेति न सूत्रनाशदोषः । ननु वाचनापृच्छनाख्यस्वाध्यायद्वयेनाध्ययनं, परावर्तनाख्यस्वाध्यायेन च स्थिरपरिचयः सूत्रस्योक्तो भवता, अनुप्रेक्षाधर्मकथाख्यस्वाध्यायद्वयेन तर्हि किं कर्तव्यं सूत्रस्येति चेत् ? न किञ्चित्, अनुयोगविषयत्वात्तयोः।
७. तत्रोद्देशादीनामिति-उद्देशादीनां त्रयाणामेवेदं स्वरूपं, न. त्वनुयोगस्यापि... तथा च ज्ञायतेऽनुयोगे कालग्रहणादिविधिर्नापेक्षितः। नन्वनुज्ञाऽनुयोगयोः कः प्रतिविशेष इति चेत् ? इदमिति गृहाण, अनुज्ञा सूत्रस्य भवत्यनुयोगस्त्वर्थस्येति । यदा सूत्रानुज्ञा (सूत्रदानस्यानुज्ञा) दीयते तदा तया सह तत्सूत्रस्य सामान्यार्थस्य दानस्य अनुज्ञा दत्तैव भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org