________________
श्रीअनुयोगद्वारसूत्रम् [सू०२] ऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देश-समुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्व-परस्वरूपप्रतिपादने श्रुतमेव समर्थम्, "स्वरूपकथनं चेदम्, अत: स्थाप्यानि अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किम्? इत्याह- अनुपयोगित्वात् स्थापनीयानि अनधिकृतानि, यत्रैव ह्युद्देश-समुद्देशा-ऽनुज्ञा: क्रियन्ते तत्रैवानुयोग: तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि इत्यतोऽत्रानधिकृतानि । अत्राह-अनुयोगो व्याख्यानम्, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वम् ?, ननु समयचर्यानभिज्ञतासूचकमेवेदं वचः, यतो हन्त तत्रापि तज्ज्ञानप्रतिपादक: सूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति । अथवा स्थाप्यानि गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति- अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नत्वाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानम्, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादय: प्रवर्त्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरणकर्मक्षय-क्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते । यतश्चैवमत आह- नो उद्दिस्संतीत्यादि, नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायन्ते, तत्र इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव
गुरोश्च प्रदानं तस्यैवोद्देशादयः प्रवर्तन्त इति तु मोक्षमार्गे स्थितानां स्थितिः। यथाऽऽचाराङ्गस्यादानप्रदाने यदेष्टे तदा तस्यैवोद्देशादयः क्रियन्ते, न सूत्रकृताङ्गादीनाम् । मत्यादीनां चतुर्णा ज्ञानानामादानं प्रदानं वा न केनचिदपि कर्तुं पार्यते, आदानप्रदानाविषयत्वात्तेषाम् । ततश्च तेषामुद्देशादीनां न कदाचिदप्यवसरः। अत एवोद्देशादीनपेक्ष्य मत्यादीनां सार्वदिकं स्थापनीयत्वमेव।
५. स्वरूपकथनं चेदमिति कोऽर्थः ? चत्तारि नाणाई ठप्पाइं ठवणिज्जाइंति सूत्रगतवाक्यखण्डेन मत्यादीनि चत्वारि ज्ञानान्युद्दिश्य स्थाप्यत्वस्य स्थापनीयत्वस्य च विधानं नाभिप्रेतम्, किन्तर्हि ? चत्वारि स्थाप्यानि ज्ञानानि स्थापनीयानीत्येवं केवलस्य स्थापनीयत्वस्यैव विधानं, रथाप्यत्वं तूद्देश्यकोटावेव चतुर्णां ज्ञानानां विशेषणत्वेन प्रविष्टम् । ततश्च प्रश्नः समुत्तिष्ठति “स्थाप्यत्वमिति यद्विशेषणं तत्किं व्यावर्तकं स्वरूपकथनं वेति" अस्य प्रश्नस्योत्तरं दत्तवान् वृत्तिकारः स्वरूपकथनं चेदमित्यनेन । चतुर्षु ज्ञानेष्वस्थाप्यत्वस्य कदाचिदप्यसम्भवाद् व्यावर्त्यस्याभाव एव । ततश्च विशेषणे व्यावर्तकत्वासम्भवात्स्वरूपदर्शकत्वमेवेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org