________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं
(सू० २) तत्थ चत्तारि णाणाई ठप्पाई ठवणिज्जाइं, णो उद्दिस्संति णो समुद्दिस्संति णो अणुण्णविज्जंति, सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्त | हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकाराणां समयः परिपालितो भवति, उक्तं च तै:- संबंध-ऽभिधेय-पओयणाई तह मंगलं च सत्थम्मि ।
४
सीसपवित्तिनिमित्तं निव्विग्घत्थं च चिंतेजा || १ || ( ) इत्यलं विस्तरेण ।
यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किम् ? इत्याह- तत्थेत्यादि, तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिकाऽवधि-मन: पर्याय- केवलाख्यानि चत्वारि ज्ञानानि ठप्पाइं ति स्थाप्यानि असंव्यवहार्याणि, व्यवहारनयो हि यदेव लोकस्योपकारे वर्त्तते तदेव संव्यवहार्यं मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्ति - प्रवृत्तिद्वारेण प्राय: श्रुतमेव साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतमभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः । यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किम् ? इत्याह- ठवणिज्जाई ति तत: स्थापनीयानि एतानि तथाविधोपकाराभावतोग्रन्थस्य प्रमाणतां ख्यापयति । ख्यातायाञ्च प्रमाणतायामध्ययनाध्यापनप्रवृत्तिः प्रेक्षावताम् । इत्येवं प्रेक्षावत्प्रवृत्त्यर्थं गुरुपर्वक्रमलक्षणः सम्बन्ध आवश्यकः । न चैतावतैव प्रेक्षावन्तस्तद्ग्रन्थाध्ययनादौ प्रवर्तन्ते, प्रस्तुतग्रन्थवन्नैकेष्वन्येष्वपि ग्रन्थेषु गुरुपर्वक्रमलक्षणेन सम्बन्धेन प्रमाणतायाः ख्यापितत्वात् । ततश्च येषामर्थानां ज्ञानमुपेयं तेषामर्थानां वाचकः प्रतिपादक उपायभूत इति यावद्यो ग्रन्थः प्रतीयते तस्मिन् प्रवृत्तिर्भवति । इयञ्च प्रतीतिर्वाच्यवाचकभावापरपर्यायोपायोपेयभावसम्बन्धेन जायत इति स्पष्टमेवेति प्रेक्षावत्प्रवृत्त्यर्थमुपायोपेयलक्षणः सम्बन्धोऽप्यावश्यक इति ।
३. गौणवृत्त्येति... अयमाशयः दानश्राद्धेन केनचिच्छ्रावकेण साधुमुद्दिश्यैव किञ्चिदुपस्कृतम् । अज्ञातोञ्छं चरन् कश्चित्तं व्यतिकरमजानानो गीतार्थः तद्गृहं भिक्षार्थं प्रविष्टः । निर्दम्भं श्रुतोपयोगं दत्तवान् स मुनिस्तं पिण्डं निर्दोषं मत्वा गृहीतवान् । वसतिमागत्य यथाविधि केवलिनं गुरुं तं पिण्डं दर्शितवान् । साधुमुद्दिश्यैव कृतोऽयं पिंड इति केवलज्ञानेन जानानोऽपि केवली तं पिंडं विशुद्धमेव व्यवहृतवान् श्रुतोपयोगेन तस्य विशुद्धत्वात् । सरःस्थितं जलं केवलाभोगेनाचित्तं जानानेनापि श्रीवीरेण तृषिता अपि साधवः पातुं नानुज्ञाताः शस्त्रानुपहततया श्रुतोपयोगेन तस्य सचित्तत्वव्यवहारात् । तथा च व्यवहारे श्रुतस्यैव बलवत्त्वं न तु केवलादेरिति तानि गौणवृत्त्या लोकोपकारीणीत्युक्तमत्र ।
४. तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्त्विति । यद्वा मतिज्ञानादीनां स्थापनीयत्वेऽन्योऽप्यादानप्रदानविषयत्वाभावरूपो हेतुर्बोध्यः । तथाहि - शिष्यस्य यद्विषयकस्य ज्ञानस्यादानमिष्टं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org