________________
श्रीअनुयोगद्वारसूत्रम् [सू०१] मनोनिमित्तो बोध इत्यर्थः । श्रवणं श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेष:, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयत इति श्रुतं शब्दः, स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानम्, शब्दो हि श्रोतु: साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते। अवधानमवधि: इन्द्रियाद्यनपेक्षमात्मन: साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् । अथवा अवधि: मर्यादा, तेनावधिना रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानम् । संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसां पर्याया: चिन्तनानुगुणा: परिणामाः, तेषु ज्ञानं मन:पर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति अवगच्छतीति मन:पर्यायमिति कर्मण्यण् (पा० ३।२।१), तच्च तद् ज्ञानं च मन:पर्यायज्ञानम् । केवलं संपूर्णज्ञेयविषयत्वात् संपूर्णम्, तच्च तद् ज्ञानं च केवलज्ञानमिति । अवग्रहादिभेदचिन्ता त्वेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् ।
अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनाम्न एव सकाशात् प्रतीयते, उपक्रमाद्यनुयोगद्वाराणामेवेहाभिधास्यमानत्वात् । प्रयोजनं तु प्रकरणकर्तृ-श्रोत्रो: प्रत्येकमनन्तर-परम्परभेदाच्चिन्तनीयम्, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रह: प्रयोजनम्, श्रोतुश्च प्रकरणार्थपरिज्ञानम्, परम्परं तु द्वयोरपि परमपदप्राप्ति:, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि- सत्त्वानुग्रहप्रवृत्ता एव परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्ति: प्रतीतैव, श्रोताऽपि गुरुभ्य: प्रस्तुतप्रकरणार्थं विजानाति, तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयान्, उपादाय उपादेयान्, संप्राप्य प्रकर्षवच्चरणकरणम्, कृत्वाऽतिदुष्करतपश्चरणम्, अनुभूय विशदकेवलालोकत: सकलत्रिलोकीतलसाक्षात्करणम्, प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणम्, सकलमुक्तजनशरणं परमपदमधिगच्छतीति । सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव - वचनरूपापन्नं
२. सम्बन्धोऽप्यु... एव । अयञ्च तर्कानुसारिणं प्रति, श्रद्धानुसारिणं प्रति तु गुरुपर्वक्रमलक्षणः सम्बन्धोऽपि नैकेषु शास्त्रेषु प्रतिपादितो वर्तते। वस्तुतस्तु प्रेक्षावान् तर्कानुसारी वा भवतु, श्रद्धानुसारी वा, तस्य प्रवृत्त्यर्थं सर्वत्र द्वयोरपि सम्बन्धयोरावश्यकत्वमेव । तथाहि- सर्वज्ञोक्तं सर्वज्ञमूलमेव वा वचनं प्रमाणमित्यस्मद्दर्शने स्वीकृतम्, अत एव गणधरैर्गुम्फिता द्वादशाङ्ग्यपि सर्वज्ञतीर्थकृद्दत्तयानुज्ञयैव प्रमाणं भवति । अत एव सर्वेऽपि ग्रन्थकर्तारः स्वकीये ग्रन्थे सर्वज्ञमूलकत्वं प्रयत्नपूर्वं प्रस्थापयन्ति । स च प्रयत्न ईदृशो भवति-अस्माभिरस्मद्गुरुपादमूल एतच्छ्रुतं, तैस्तु स्वकीयगुरुपादमूले, तैरपि गुरुभिः स्वकीयगुरुपादमूले... इत्येवं गुरुपरम्परयाऽस्य ग्रन्थस्य मूलं सर्वज्ञ एवेति । अयमेव च गुरुपर्वक्रमलक्षणः सम्बन्धः। प्रस्थापितश्चायं सम्बन्धो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org