________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात् । स चानुयोगो यद्यप्यनेकग्रन्थविषय: संभवति तथापि प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात् प्रथममनुयोगद्वाराणामेव विधेय: । जिनवचने ह्याचारादि श्रुतं प्राय: सर्वमप्युपक्रम-निक्षेपा-ऽनुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात् प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । स च यद्यपि चूर्णि-टीकाद्वारेण वृद्धैरपि विहितः तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौत्सुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते।
अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोरूपत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थं शिष्टसमयपरिपालनार्थं चादौ मङ्गलरूपं सूत्रमाह - नाणं पंचविहमित्यादि । व्याख्या - ज्ञातिर्ज्ञानम्, कृत्यल्युटो बहुलम् (पा० ३।३।११३) इति वचनाद् भावसाधन:, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्निति वा ज्ञानम्, जानाति स्वविषयं परिच्छिनत्तीति वा ज्ञानं ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः । पंचविहं ति पञ्चेति सङ्ख्यावचन:, विधानानि विधा: भेदा:, पञ्च विधा अस्येति पञ्चविधं पञ्चप्रकारमित्यर्थः, पण्णत्तं ति प्रज्ञप्तम्, अर्थतस्तीर्थकरैः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मन: स्वमनीषिका परिहता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं प्राप्तं गणधरैरिति प्राज्ञाप्तम्, अथवा प्राज्ञैः गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तम्, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञाप्तम्, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, ह्रस्वत्वं तु सर्वत्र प्राकृतत्वादित्यवयवार्थः । अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभि: प्रज्ञप्तमिति सम्बन्धः । कतिविधम् ? इति, अत्रोच्यते-पञ्चविधमिति ।
तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- तंजहेत्यादि, तद्यथेत्युपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मन:पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी 'नियत इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोध: अभिनिबोध इति भावसाधन:, स्वार्थिकतद्धितोत्पादात् स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनिबोधिकमिति तथैव, आभिनिबोधिकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम्, इन्द्रियपञ्चक
१. नियत... बोध इति। चक्षुषा रूपादिविषय एव बोधः, रसनेन्द्रियेण रसादिविषय एव बोधः, इत्यादिप्रकारेण नियतो बोधोऽत्र ज्ञेयः। अन्यत्र त्वभिमुखोऽसन्दिग्धत्वेन निश्चितो बोध इत्यभिनिबोध इत्यपि व्युत्पत्तिर्दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org