________________
१८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं तत्र प्रथमो विकल्पः श्रेयः, नामस्थापनादिनिक्षेपेष्वावश्यकेत्यादिवर्णावल्यात्मकस्य शब्दस्यांशमात्रेणापि भेदाभावाच्चातुर्विध्यानुपपत्तेः, 'यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेवे 'त्यादि वृत्तौ यदुक्तं तद्विरोधाच्च । कथं तद्विरोध इति नाशङ्कनीयं, तत्र वस्तुनश्चिन्तनीयत्वेनोक्तत्वात् न तु शब्दस्येति । नापि द्वितीयः, षडध्ययनकलापलक्षणस्यावश्यकस्यावश्यकाख्यदारकादेः प्रकारत्वाभावादित्युभयतः पाशारज्जुरिति चेत् ? न, आवश्यकपदप्रतिपाद्यत्वेन प्रतिपाद्या ये पदार्थास्तेषां चतुर्विधत्वात्तेषामयं निक्षेपो मन्तव्य इत्यस्माकं मतिः ।
इत्थञ्च ‘से किं तं आवस्सयं ? आवस्सयं चउव्विहं पण्णत्तं, तं जहा-नामावस्सयं इत्यादिवक्ष्यमाणसूत्रे आवस्स्यंति शब्दस्य आवश्यकपदप्रतिपाद्यमित्यर्थो लभ्यते, तथा च अथ किं तदावश्यकपदप्रतिपाद्यम् ? आवश्यकपदप्रतिपाद्यं चतुर्विधं प्रज्ञप्तं, तद्यथा... इत्यादि सूत्रार्थस्य प्राप्यमाणत्वान्न काप्यनुपपत्तिः, अन्यथाऽऽवश्यके' तिशब्दस्य सामयिकादिषडध्ययनकलापलक्षणस्यावश्यकस्य च चतुर्विधत्वाभावात्सूत्रानुपपत्तिः स्यादेव ।
अत एवानन्तरमेव वक्ष्यमाणस्य 'जत्थ वि अ न जाणेज्जा चउक्कयं निक्खिवे तत्थ'त्ति सूत्रांशस्य विवरणे 'न हि किमपि तद्वस्त्वस्ति यन्नामादिचतुष्टयं व्यभिचरती'त्यादि यदुक्तं वृत्तिकृता तस्यापि न हि किमपि पदप्रतिपाद्यं तद्वस्त्वस्ति यन्नामादिचतुष्टयं व्यभिचरतीत्यादिरूपेण पर्यवसानात् निर्दोषत्वसङ्गतिः, अन्यथाऽनभिलाप्यानां वस्तूनामन्यत्र शास्त्रे नामनिक्षेपासम्भवो यः कथितस्तेन स्फुट एव व्यभिचारः ।
ननु तथापि जीवेतिपदप्रतिपाद्यं यद्वस्तु तस्य द्रव्यनिक्षेपासम्भवात्स्फुट एव व्यभिचार इति चेत् ? न, तस्यावस्तुत्वादेव व्यभिचाराभावात् । ननु किमिदमश्रुतपूर्वमपूर्वमत्यसमजसमुच्यते यज्जीवस्यावस्तुत्वमिति, यतो नवतत्त्वप्रकरणादिषु नैकेषु शास्त्रेषु सत्पदप्ररूपणायां जीवेति यच्छुद्धं व्युत्पत्तिमत्पदं तत्प्रतिपाद्यस्य जीवस्य सत्त्वस्य = वस्तुत्वस्य ख्यापितत्वात्, शिष्टजनेषु च जीवतत्त्वस्य चिरपरिचितत्वादिति चेत्? न, तस्य ख्यापितस्य चिरपरिचितस्य च जीवाख्यवस्तुनो भिन्नत्वाद् द्रव्यनिक्षेपासम्भववतो जीवेतिपदप्रतिपाद्यस्य भवत्कल्पनाविषयस्य च भिन्नत्वाद् । अयम्भावः जीवेतिपदप्रतिपाद्यत्वेन किं रमते भवत्कल्पनायाम् ? अवस्थाविशेषलक्षणपर्यायापन्नः कश्चित्पदार्थस्तच्छून्यो वा ? यद्याद्यो विकल्पस्तर्हि तदवस्थाविशेषकारणीभूतपूर्वकालीनावस्थाविशेषापन्नस्य पदार्थस्यैव द्रव्यनिक्षेपत्वसम्भवान्न व्यभिचारः । अथ द्वितीयो विकल्पस्तर्हि स्फुटमेव तस्यावस्तुत्वं, पर्यायवियुक्तस्य कल्पनाविषयस्य वस्तुतोऽवस्तुत्वात्, अवस्तुत्वेऽपि पदप्रतिपाद्यतया कल्पनारूढत्वमात्रेण यदि निक्षेपैर्भवितव्यं, तर्हि शशशृङ्गादेरपि निक्षेपैर्भवितव्यतापत्तिः स्फुटैव । ननु शशशृङ्गादेस्तु नैकस्यापि निक्षेपस्य सम्भवः, जीवस्य तु न तथा, तस्य केवलस्य द्रव्यनिक्षेपस्यैवासम्भवादिति चेत् ? न,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org