________________
श्री अनुयोगद्वारसूत्रम् [सू०८, ९]
( सू० ८ ) जत्थ य जं जाणेज्जा णिक्खेवं णिक्खिवे णिरवसेसं । जत्थवि जाणेज्जा चउक्कयं निक्खिवे तत्थ ॥ १ ॥
(सू० ९) से किं तं आवस्सयं ? आवस्सयं चउव्विहं पण्णत्तं । तंजहा- नामावस्सयं १, ठवणावस्सयं २, दव्वावस्सयं ३, भावावस्सयं ४ ।
१९
द्रव्य-भावलक्षणं चतुष्कं निक्षिपेत्, इदमुक्तं भवति - यत्र तावन्नाम - स्थापना - द्रव्य-क्षेत्र-काल-भवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थ: ।
तत्र ‘यथोद्देशं निर्द्देश:' इत्यावश्यकनिक्षेपार्थमाह-से किं तं आवस्सयमित्यादि ।
अत्र सेशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः, तथा चोक्तम्अथ प्रक्रिया-प्रश्ना-ऽऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचन - समुच्चयेषु ( ) इति, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रक्रान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:- अथ किंस्वरूपं तदावश्यकम् ?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थं प्रत्युच्चार्य निर्दिशति - आवस्सयं चउव्विहमित्यादि, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानाम् आ समन्ताद् वश्यमात्मानं करोतीत्यावश्यकम्, यथा अन्तं करोतीति अन्तकः, अथवा आवस्सयं ति प्राकृतशैल्या आवासकम्, तत्र वस निवासे (पा० धा० १००५, का० धा० १।६१४) इति गुणशून्यमात्मानम् आ समन्तात् वासयति गुणैरित्यावासकम्, चउव्विहं पण्णत्तं ति चतस्रो विधा भेदा अस्येति चतुर्विधं प्रज्ञप्तं प्ररूपतमर्थतस्तीर्थकरैः सूत्रतो गणधरै:, तद्यथा - नामावस्सयमित्यादि, नाम अभिधानम्, तद्रूपमावश्यकं नामावश्यकम्, आवश्यकाभिधानमेवेत्यर्थः, अथवा नाम्ना नाममात्रेणावश्यकं नामावश्यकं जीवादीत्यर्थः, तल्लक्षणं चेदम्
यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् ।
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ ( विनेयानुग्रहार्थमेतद्व्याख्या-यद् वस्तुनः इन्द्रादेः अभिधानम् इन्द्र इत्यादिवर्णावली-मात्रमिदमेव पर्यायवियुक्तस्य जीवस्यापि नैकस्यापि निक्षेपस्य सम्भवः, भवत्कल्पनायां ये निक्षेपा अवतरन्ति ते तु पर्यायविशेषापन्नस्य जीवस्यैवेति सूक्ष्मधिया विभावनीयमिदम् । वस्तुतो जीवस्य न मनुष्यादेरिव वस्तुत्वं नापि शशशृङ्गादेरिव सर्वथा तुच्छत्वं, अपि तु वस्त्वंशत्वम् । तथापि पदप्रतिपाद्यत्वे सत्यपि यो निक्षेपासम्भवस्तत्र तस्य शशशृङ्गतुल्यत्वमेवेति शशशृङ्गतुल्यतया स असम्भवोऽत्र साधित इति ध्येयम् । अधिकं निक्षेपविंशिकायां विवरितुकामोऽधुनाऽहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org