________________
२०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं वा आवश्यकलक्षणवर्णचतुष्टयावलीमात्रं यत्तदोर्नित्याभिसंबन्धात् तन्नामेति संटङ्क: । अथ प्रकारान्तरेण नाम्नो लक्षणमाह- स्थितमन्यार्थे तदर्थनिरपेक्षं पर्यायानभिधेयं चेति, तदपि नाम, यत कथंभूतमित्याहअन्यश्चासावर्थश्चान्यार्थो गोपालदारकादिलक्षण: तत्र स्थितम्, अन्यत्रेन्द्रादावर्थे यथार्थत्वेन प्रसिद्ध सदन्यत्र गोपालदारकादौ यदारोपितमित्यर्थः, अत एवाह- तदर्थनिरपेक्षमिति, तस्य इन्द्रादिनाम्नोऽर्थः परमैश्वर्यादिरूपस्तदर्थः, स चासावर्थश्चेति वा तदर्थः, तस्य निरपेक्षम्, गोपालदारकादौ तदर्थस्याभावात्, पुन: किंभूतं तदित्याह- १२पर्यायानभिधेयमिति, पर्यायाणां शक्र-पुरन्दरादीनामनभिधेयम् अवाच्यम्, गोपालदारकादयो हीन्द्रादिशब्दैरुच्यमाना अपि शचीपत्यादिरिव शक्र-पुरन्दरादि-शब्दै भिधीयन्ते, अतस्तन्नामापि नाम- तद्वतोरभेदोपचारात् पर्यायानभिधेयमित्युच्यते । चशब्दो नाम्न एव लक्षणान्तरसूचकः । शचीपत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्यम् । तृतीयप्रकारेणापि तल्लक्षणमाह- यादृच्छिकं च तथेति, तथा यत् तथाविधव्युत्पत्तिशून्यं डित्थ-डवित्थादिरूपं यादृच्छिकं स्वेच्छया नाम क्रियते तदपि नामेत्यार्यार्थः।
___ उपनिषच्चात्रेदं - सामान्यतो देवमनुजगत्यादीनां सर्वेषां पर्यायाणामाधारभूतं केवलं (= पर्यायवियुक्तं) जीवद्रव्यं जीवेतिपदप्रतिपाद्यत्वेनावतार्यतेऽस्माभिः कल्पनायां, तस्य तु त्रैकालिकत्वात्कूटस्थनित्यत्वान्न किञ्चित्पूर्वकालीनं कारणीभूतं वस्तु विद्यते यत्तद्र्व्यनिक्षेपत्वेन व्यवहर्तुं शक्यते। ततश्च जीवेतिपदप्रतिपाद्यस्य वस्तुनो द्रव्यनिक्षेपासम्भवोऽस्माकमाभाति । किन्तूत्पादव्ययध्रौव्ययुक्तस्यैव सत्त्वाद् एतस्य कल्पनाविषयस्योत्पादव्ययशून्यत्वेनावस्तुत्वमेव (वस्त्वंशत्वमेव)। तथा च कथं व्यभिचारगन्धोऽपि ? अयमेव च समाधिर्धर्मास्तिकायादिष्वपि ज्ञेयः, अन्यथा तत्रापि द्रव्यनिक्षेपासम्भवाशकासम्भवोऽनाबाध एव । ___१२. पर्यायानभिधेयमिति पर्यायाणां शक्रपुरन्दरादीत्यादि... ननु पर्यायानभिधेयत्वं कथम् ? नैकेषु ग्रन्थेषु पर्यायाभिधेयत्वस्य दृश्यमानत्वात् । अयं भाव:- आवश्यकनियुक्ति-त्रिषष्टिशलाकापुरुषचरित्रादिषु ग्रन्थेष्वष्टमतीर्थकृतो नाम्नः कुत्रचिद् चन्द्रप्रभेत्येवंरूपेणोल्लेखः कुत्रचित्तु शशिप्रभेत्यादिरूपेण दश्यते। यदक्तं ससि पप्फदंत सीअलं इत्यादि (आ.नि.३७०)। एवमन्येषामपि नाम्नां पर्यायान्तराभिधेयत्वं लोकेऽपि दृश्यत एवेति चेत् ? अथ किमत्राशङ्कनीयं ? शक्रस्य पुरन्दरादिशब्दाभिधेयत्वस्येव चन्द्रस्य शश्यादिशब्दाभिधेयत्वे दोषाभावादिति नाशङ्कनीयम्, यतश्चन्द्रस्य शश्यादिशब्दाभिधेयत्वे न कोऽपि विरोधोऽस्माकम्, नभोगतस्य चन्द्रस्य भावनिक्षेपत्वात्, केवलं यस्य कस्यचिन्मनुजादेश्चन्द्र इति नाम यदि कृतं स्यात्, तदा तस्य नामनिक्षेपत्वं स्फुटमेव, तथापि यदि स मनुजः शश्यादिशब्दाभिधेयः स्यात् तदा नामनिक्षेपस्य पर्यायानभिधेयत्वोक्तेर्जलाञ्जलिरेव दातव्यः स्यादिति । उच्यतेऽत्र समाधानं चन्द्रेतिपदप्रतिपाद्यानामर्थानां मध्ये चन्द्राख्यमनुजादे मनिक्षेपत्वेन शशाङ्कादिपर्यायानभिधेयत्वेऽपि चन्द्रप्रभेतिपदप्रतिपाद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org