________________
श्री अनुयोगद्वारसूत्रम् [सू०२०२]
१३९
( ३ ) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी असंखेज्जसमयठितीए जाव एक्कसमयठितए । सेतं पच्छाणुपुव्वी ।
(४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए असंखेज्जगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । सेतं अणाणुपुव्वी ।
( सू० २०२) (१) अहवा ओवणिहिया कालाणुपुव्वी तिविहा पण्णत्ता । तंजहापुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।
(२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- ७७समए, ७८आवलिया, आणापाणू, तत्र समयो वक्ष्यमाणस्वरूपः सर्वसूक्ष्मः कालांश:, स च सर्वप्रमाणानां प्रभवत्वात् प्रथमं निर्द्दिष्टः
७७. समये आवलिअत्ति । ननु क्षेत्रानुपूर्व्यं यथाऽधोलोक - तिर्यग्लोकादिक्षेत्रविभागानां पूर्वानुपूर्व्यादिक्रमेणोत्कीर्तनं कृतं तथाऽत्र कालानुपूर्व्यं सुषमसुषमाख्यः प्रथमः आरकः, सुषमाख्यो द्वितीय आरक इत्यादिक्रमेण कालचक्रविभागानामुत्कीर्तनं किं न कृतम् ? शृण्वत्रोत्तरम्-कालचक्रस्य प्रारम्भोऽवसर्पिण्या भवत्युत्सर्पिण्या वा तत्र को विनिगमकः ? पूर्वानुपूर्व्यर्थं सुषमसुषम- सुषम- सुषमदुषम-दुषमसुषम-दुषम-दुषमदुषम-दुषमदुषम-दुषम-दुषमसुषमसुषमदुषम-सुषम-सुषमसुषम इति क्रमो ग्रहीतव्यो यद्वा दुषमदुषम-दुषम... इत्यादि - क्रमस्तत्र कः विनिगमकः ? इत्यर्थः । तथा च कस्य क्रमस्य पूर्वानुपूर्वीत्वमित्यत्र विनिगमका-भावेन निर्णयाभावान्न तन्निरूपणं कृतमिति मन्तव्यम् । ननु पूर्वमौपनिधिकीद्रव्यानुपूर्वीनिरूपणे (सू. ९७) ‘धर्मे’तिपदस्य माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यास इति हेतुप्रदर्शनपुरस्सरं धर्मास्तिकाय- अधर्मास्तिकायेत्यादिक्रमस्य पूर्वानुपूर्वीत्वमुपदर्शितम् । तथा चात्रापि “दुषमदुषमेतिपदस्यामाङ्गलिकत्वेन 'सुषमसुषमे' तिपदस्य च माङ्गलिकत्वेन तस्यैव प्रथममुपन्यासः कर्तव्यः” इत्येवं हेतुप्रदर्शनपूर्वं सुषमसुषम- सुषम - सुषमदुषम... इत्यादिक्रमस्य पूर्वानुपूर्वीत्वं शक्यकथनमेव । अत एवास्मिन्नेव सूत्रेऽवसर्पिण्या: पूर्वमुपन्यासः कृत उत्सर्पिण्यास्तु तत्पश्चात् । इत्थञ्च माङ्गलिकत्वमेवात्र विनिगमकः । ततश्च सुषमसुषमेत्यादिक्रमेण कालचक्रविभागानामुत्कीर्तनं किमर्थं न कृतमिति प्रश्नस्तदवस्थ एवेति चेत् ? तर्हि विदेहेषु सदावस्थितकालत्वात् सुषमसुषमेत्यादिकालविभागानामभावादेव तन्न कृतमिति मन्तव्यम्, यद्वाऽकृतमपि तदुपलक्षणाद् ज्ञेयम् ।
७८. आवलिअत्ति । यद्यपि समयानां मिथः सम्मील्य स्कन्धविरचनं नैव सम्भवति, तथापि व्यवहारेण समयसमूहविशेषं बुद्धावारोप्यावलिकादीनां व्यवहारः शास्त्रे लोके च प्रसिद्धः । तदनुसृत्येयमौपनिधिकी ज्ञेया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org