________________
१३८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २००) से किं तं संगहस्स अट्ठपयपरूवणया ? संगहस्स अट्ठपयपरूवणया - एयाइं पंच वि दाराई जहा खेत्ताणुपुव्वीए संगहस्स तहा कालाणुपुव्वीए वि भाणियव्वाणि, णवरं ठितीअभिलावो जाव सेतं संगहस्स अणोवणिहिया कालाणुपुव्वी । सेतं अणोवणिहिया कालाणुपुव्वी।
(सू० २०१) (१) ७६से किं तं ओवणिहिया कालाणुपुव्वी? ओवणिहिया कालाणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।
(२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी एगसमयठितीए, दुसमयठितीए , तिसमयठितीए जाव दससमयठितीए जाव संखेज्जसमयठितीए, असंखेज्जसमयठितीए। सेतं पुव्वाणुपुव्वी। तु क्षेत्रानुपूर्व्याधुक्तानुसारतः सर्वं वाच्यमिति । अत एव केषुचिद्वाचनान्तरेषु भागादिद्वारत्रयं क्षेत्रानुपूर्व्यतिदेशेनैव निर्दिष्ट दृश्यते, न तु विशेषतो लिखितमिति । सेत्तमित्यादि निगमनम् ।
उक्ता नैगम-व्यवहारनयमतेनानौपनिधिकी कालानुपूर्वी, अथ संग्रहनयमतेन तामेव व्याचिख्यासुराह - से किं तमित्यादि । यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग् निर्दिष्टा तथाऽत्रापि वाच्या, नवरं तिसमयठिईया आणुपुव्वी जाव असंखेजसमयठिईया आणुपुव्वीत्याद्यभिलाप: कार्य:, शेषं तु तथैवेति । उक्ता संग्रहमतेनाप्यनौपनिधिकी कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः ।
इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराह - से किं तमित्यादि । एक: समय: स्थितिर्यस्य द्रव्यविशेषस्य स तथा, एवं यावदसङ्ख्येया: समया: स्थितिर्यस्य स तथेति पूर्वानुपूर्वी, शेषभावना त्वत्र पूर्वोक्तानुसारेण सुकरैव । अथ कालविचारस्य प्रस्तुतत्वात् समयादेश्च कालत्वेन प्रसिद्धत्वाद् अनुषङ्गतो विनेयानां समयादिकालपरिज्ञानदर्शनाच्च तद्विषयत्वेनैव प्रकारान्तरेण तामाह - अहवेत्यादि,
७६. से किं तं ओवणिहिया कालाणुपुव्वीत्ति । ननु यथाऽनौपनिधिकीकालानुपूर्वीविषये नैगम-व्यवहार-सङ्ग्रहनयैः पृथक्पृथग् विचारितं, तथौपनिधिकीविषये किं नयविचारो न क्रियत इति चेत् ? शृणु-अनौपनिधिकीनिरूपणे कालानुपूर्वीभूतानां द्रव्याणामर्थपदप्ररूपणतादिद्वारैर्विचारो यतः कर्तव्यो भवत्यतस्तत्र नयसमवतारो भवति। औपनिधिकीनिरूपणे त्वन्यत्र शास्त्रादौ प्रसिद्धानां समयावलिकादिकालविभागानां पूर्वानुपूर्व्यादिक्रमेणोत्कीर्तनमेव कर्तव्यं भवति, न त्वर्थपदप्ररूपणतादिद्वारैः द्रव्यप्रमाणादिद्वारैर्वा कश्चिदपि विचारः कर्तव्यो भवतीति न नयसमवतारस्यावकाशः । इदमेव समाधानं द्रव्य-क्षेत्रानुपूर्दोरपि ज्ञेयम् । अत एव पूर्वमौपनिधिक्या द्रव्यानुपूर्वीनिरूपणे (सू. १३६) परमाणुद्व्यणुकाद्यनन्ताणुकपर्यन्तानामुत्कीर्तनमेव कृतं, द्रव्यप्रमाणादि न किञ्चिदपि चिन्तितम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org