________________
१३७
श्रीअनुयोगद्वारसूत्रम् [सू०१९८-१९९]
(सू० १९८) भावे वि तहेव । अप्पाबहुं पि तहेव नेयव्वं जाव सेतं अणुगमे । से तं णेगम-ववहाराणं अणोवणिहिया कालाणुपुव्वी।
(सू० १९९) से किं तं संगहस्स अणोवणिहिया कालाणुपुव्वी ? संगहस्स अणोवणिहिया कालाणुपुव्वी पंचविहा पण्णत्ता । तंजहा- अट्ठपयपरूवणया १, भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोतारे ४, अणुगमे ५ । कालोऽन्तरे लभ्यते किमित्यसङ्ख्येय एवोक्त: ? सत्यम्, किन्तु कालानुपूर्वीप्रक्रमात् कालस्यैवेह प्राधान्यं कर्तव्यम्, यदि त्वन्यान्यद्रव्य-क्षेत्रसम्बन्धतोऽन्तरकालबाहुल्यं क्रियते तदा तद्द्वारेणैवान्तरकालस्य बहुत्वकरणात्तयोर्द्वयोरेव प्राधान्यमाश्रितं स्यान्न कालस्य, तस्मादेकस्मिन्नेव परिणामान्तरे यावान् कश्चिदुत्कृष्ट: कालो लभ्यते स एवान्तरे चिन्त्यते, स चासङ्ख्येय एव, तत: परमेकेन परिणामेन वस्तुनोऽवस्थानस्यैव निषिद्धत्वादित्येवं भगवत: सूत्रस्य विवक्षावैचित्र्यात् सर्वं पूर्वमुत्तरत्र चागमाविरोधेन भावनीयमिति । नानाद्रव्याणां तु नास्त्यन्तरम्, प्रतिप्रदेशं लोके सर्वदा तल्लाभादिति । ___ अवक्तव्यकद्रव्यचिन्तायां जहण्णेणं एग समयं ति, द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा यदा पूर्वानुभूतमेव द्विसमयस्थितिकपरिणाममासादयति तदा समयो जघन्यान्तरकाल: । उक्कोसेणं असंखेज कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयं कालं स्थित्वा ७५पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो भवति, आक्षेपपरिहारावत्राप्यनानुपूर्वीवद् द्रष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तद्भावादिति ।
उक्तमन्तरद्वारम्, भागद्वारे तु यथा द्रव्य-क्षेत्रानुपूर्दोस्तथैवानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसङ्ख्येयैर्भागैरधिकानि व्याख्येयानि, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसङ्ख्येयभाग एव वर्तन्त इति । भावना त्वित्थं कर्तव्या- इहानानुपूर्व्यामेकसमयस्थितिलक्षणमेकमेव स्थानं लभ्यते, अवक्तव्यकेष्वपि द्विसमयस्थितिलक्षणमेकमेव तल्लभ्यते, आनुपूर्त्यां तु त्रिसमय-चतु:समय-पञ्चसमयस्थित्यादीन्येकोत्तरवृद्ध्याऽसङ्ख्येयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसङ्ख्येयगुणत्वम् । इतरयोस्तु तदसङ्ख्येयभागवर्तित्वमिति ।
भावद्वारे सादिपारिणामिकभाववर्तित्वं त्रयाणामपि पूर्ववद्भावनीयम् ।
अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वात्, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वात्, आनुपूर्वीद्रव्याणां तु पूर्वेभ्योऽसङ्ख्यातगुणत्वं भागद्वारे भावितमेव, शेषं
७५. पुनस्तमेव पूर्वानुभूतं परिणाममासादयतीति। द्विसमयस्थितिकत्वपरिणाममासादयतीत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org