________________
१३६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
(२) णेगम-ववहाराणं अणाणुपुव्विदव्वाणं अंतरं कालतो केवचिरं होति ? एगदव्वं पडुच्च जहण्णेणं दो समया, उक्कोसेणं असंखेज्जं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं । (३) णेगम-ववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगदव्वं पडुच्च जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं ।
(सू० १९७) णेगम-ववहाराणं आणुपुग्विदव्वाई सेसदव्वाणं कइभागे होज्जा ? पुच्छा, जहेव खेत्ताणुपुव्वीए । पुनस्तेनैव परिणामेन त्र्यादिसमयस्थितिकं जायते तदा जघन्यतया समयोऽन्तरे लभ्यते । उक्कोसेणं दो समय त्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टतोऽन्तरे भवतः, यदि पुन: परिणामान्तरेण क्षेत्रादिभेदत: समयद्वयात् परतोऽपि तिष्ठेत्तदा तत्राप्यानुपूर्वीत्वमनुभवेत्, ततोऽन्तरमेव न स्यादिति भावः । नानाद्रव्याणां तु नास्त्यन्तरम्, सर्वदा लोकस्य तदशून्यत्वादिति ।
___ अनानुपूर्वीचिन्तायाम् एगदव्वं पडुच्च ज़हण्णेणं दो समय त्ति, एकसमयस्थितिकं द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं परिणाममासादयति तदा समयद्वयं जघन्योऽन्तरकाल:, यदि तु परिणामान्तरेणाप्येकमेव समयं तिष्ठेत् तदा अन्तरमेव न स्यात् तत्राप्यनानुपूर्वीत्वात्, अथ समयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यादिति भाव: । उक्कोसेणं असंखेजं कालं ति, तदेव यदा परिणामान्तरेणासङ्ख्येयकालमनुभूय पुनरेकसमयस्थितिकं परिणाममनुभवति तदोत्कृष्टतोऽसङ्ख्येयोऽन्तरकाल: प्राप्यते । आह- ननु च अन्यान्यद्रव्य-क्षेत्रसम्बन्धे तस्यानन्तोऽपि एकः स्कन्धो भिन्नः । समयानन्तरं पुनर्भिन्नः । ततश्च तस्य यः परिणामो जातस्तेनैव परिणामेन स त्र्यादिसमयान् यावत्थितः । इत्थं प्रथमभेदात्प्रागानुपूर्वीद्रव्यं, द्वितीयभेदानन्तरमप्यानुपूर्वीद्रव्यं, द्वयोर्भेदयोर्मध्यगत एकस्मिन् समयेऽनानुपूर्वीद्रव्यमिति जघन्यतया समयोऽन्तरे प्राप्तः। यदा द्वितीयभेदः समयद्वयानन्तरं भवेत्तदा द्वयोर्भेदयोर्मध्यगते समयद्वयेऽवक्तव्यकद्रव्यमिति द्वौ समयावन्तरे प्राप्तौ। इदमेवोत्कृष्टतोऽन्तरमिति ग्रन्थे प्रोक्तम्।
ननु व्यादिसमयस्थितिकत्वेनानुपूर्वीद्रव्यरूप एकोऽनन्ताणुकः स्कन्धो भिन्नः। समयानन्तरं पुनर्भिन्नः । पुनः समयानन्तरे भिन्नः। पुनः समयद्वयानन्तरं भिन्नः। एवं पुनः पुनर्बहुशोऽनानुपूर्वी अवक्तव्यकं द्रव्यं वा भूत्वा सङ्ख्येयसमयानन्तरं पुनरानुपूर्वीद्रव्यं जातम्। ततश्चैवंक्रमेण सङ्ख्येयसमया अप्युत्कृष्टतयाऽन्तरे प्राप्यन्ते न वा? सूत्रे द्वौ समयावेवोत्कृष्टतोऽन्तरं यदुक्तं तेन, एवंक्रमेण पुनर्पुनर्भेदो नैव भवतीत्येवं निषेध एव ज्ञेयः, यद्वैवंक्रमेण भेदस्य सम्भवेऽपि तस्याविवक्षा ज्ञेयेत्यत्र नास्माकं कोपि निर्णय इति न किञ्चिदपि वक्तुं पार्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org