SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं थोवे, लवे, मुहुत्ते, दिवसे, अहोरत्ते, पक्खे, मासे, उदू, अयणे, संवच्छरे, जुगे, वाससते, वाससहस्से, वाससतसहस्से, पुव्वंगे, पुव्वे, तुडियंगे, तुडिए, अडडंगे, अडडे, अववंगे, अववे, हूहुयंगे, हूहुए, उप्पलंगे, उप्पले, पउमंगे, पउमे, णलिणंगे, णलिणे, अत्थनिउरंगे, अत्थनिउरे, अउयंगे, अउए, नउयंगे, नउए, पउयंगे, पउए, चूलियंगे, चूलिए, सीसपहेलियंगे, सीसपहेलिया, पलिओवमे, सागरोवमे, ओसप्पिणी, उस्सप्पिणी, पोग्गलपरियट्टे, तीतद्धा, अणागतद्धा, सव्वद्धा । सेतं पुव्वाणुपुव्वी । १, तैरसङ्ख्येयैर्निष्पन्ना आवलिका २, सङ्ख्येया आवलिका: आण त्ति आन:, एक उच्छ्वास इत्यर्थः ३, ता एव सङ्ख्येया नि:श्वासः, अयं च सूत्रेऽनुक्तोऽपि द्रष्टव्यः, स्थानान्तरप्रसिद्धत्वादिति ४, द्वयोरपि काल: पाणु त्ति एक: प्राणुरित्यर्थ: ५, सप्तभि: प्राणुभि: स्तोक: ६, सप्तभि: स्तोकैर्लवः ७, सप्तसप्तत्या लवानां मुहूर्त्त : ८, त्रिंशता मुहूर्त्तेरहोरात्र: ९, तैः पञ्चदशभि: पक्ष: १०, ताभ्यां द्वाभ्यां मास: ११, मासद्वयेन ऋतु: १२, ऋतुत्रयमानमयनम् १३, अयनद्वयेन संवत्सरः १४, पञ्चभिस्तैर्युगम् १५, विंशत्या युगैर्वर्षशतम् १६, तैर्दशभिर्वर्षसहस्रम् १७, तेषां शतेन वर्षशतसहस्रम् लक्षमित्यर्थः १८, चतुरशीत्या च लक्षै: पूर्वाङ्गं भवति १९, तदपि चतुरशीतिलक्षैर्गुणितं पूर्वं भवि २०, तच्च सप्ततिकोटिलक्षाणि षट्पञ्चाशच्च कोटिसहस्राणि वर्षाणाम्, उक्तं च - पुव्वस्स उ परिमाणं सयरि खलु हुंति कोडिलक्खाउ । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं ॥ १ ॥ ( जिन० संग्र० ३१६ ) स्थापना ७०५६००००००००००। इदमपि चतुरशीत्या लक्षैर्गुणितं त्रुटिताङ्गं भवति २१, एतदपि चतुरशीत्या लक्षैर्गुणितं त्रुटितम् २२, तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गम् २३, एतदपि तेनैव गुणकारेण गुणितमटटम् २४, एवं सर्वत्र पूर्वः पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तरराशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यम्, ततश्च अववाङ्गम् २५, अववम् २६, हूहुकाङ्गम् २७, हूहुकम् २८, उत्पलाङ्गम् २९, उत्पलम् ३०, पद्माङ्गम् ३१, पद्मम् ३२, नलिनाङ्गम् ३३, नलिनम् ३४, अर्थनिपूराङ्गम् ३५, अर्थनिपूरम् ३६, अयुताङ्गम् ३७, अयुतम् ३८, नयुताङ्गम् ३९, नयुतम् ४०, प्रयुताङ्गम् ४१, प्रयुतम् ४२, चूलिकाङ्गम् ४३, चूलिका ४४, शीर्षप्रहेलिकाङ्गम् ४५, एवमेते राशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तरं वृद्धा द्रष्टव्यास्तावद् यावदिदमेव शीर्षप्रहेलिका चतुरशीत्या लक्षैर्गुणितं शीर्ष प्रहेलिका भवति ४६, अस्या: स्वरूपमङ्कतोऽपि दर्श्यते - ७५८२६३२५३०७३०१०२४१-१५७९७३५६९९७५६९६४०६२१८९६६८४८०८०१८३२९६ अग्रे चत्वारिंशं शून्यशतम् १४०, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्णवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy