________________
श्रीअनुयोगद्वारसूत्रम् [सू०२०३]
१४१
(३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- सव्वद्धा, अणागतद्धा जाव समए । सेतं पच्छाणुपुव्वी ।
(४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए अणंतगच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो । से तं अणाणुपुव्वी । से तं ओव कालापुव्वी । सेतं कालाणुपुव्वी ।
(सू० २०३) (१) से किं तं उक्कित्तणाणुपुव्वी ? उक्कित्तणाणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- उसभे १, अजिए २, संभवे ३, अभिणंदणे ४, सुमती ५, पउमप्पभे ६, सुपासे ७, चंदप्पहे ८, सुविही ९, सीतले १०, सेज्जंसे ११, वासुपुज्जे १२, विमले १३, अनंतती १४, धम्मे १५, संती १६, कुंथू १७, अरे १८, मल्ली १९, मुणिसुव्वए २०, णमी २१, अरिट्ठणेमी २२, पासे २३, वद्धमाणे २४ । सेतं पुव्वाणुव्व ।
भवन्ति, अनेन चैतावता कालमानेन केषाञ्चिद् रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुष्षमारकसम्भविनां नरतिरश्चां च यथासम्भवमायूंषि मीयन्ते, ७९ एतस्माच्च परतो ऽपि सङ्ख्येयः कालोऽस्ति, किन्त्वनतिशयिनामसंव्यवहार्यत्वात् सर्षपाद्युपमयाऽत्रैव वक्ष्यमाणत्वाच्च नेहोक्तः, किं तर्हि ? उपमामात्रप्रतिपाद्यानि पल्योपमादीन्येव, तत्र पल्योपम-सागरोपमे अत्रैव वक्ष्यमाणस्वरूपे, दशसागरोपमकोटीकोटिमाना त्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सर्पिण्यवसर्पिण्यः पुद्गलपरावर्तः, अनन्तास्ते अतीताद्धा, तावन्मानैवानागताद्धा, अतीता-ऽनागत-वर्तमानकालस्वरूपा सर्वाद्धेत्येषा पूर्वानुपूर्वी, शेषभावना तु पूर्वोक्तानुसारतः सुकरैव यावत् कालानुपूर्वी समाप्ता ।
साम्प्रतं प्रागुद्दिष्टामेवोत्कीर्तनानुपूर्वी बिभणिषुराह से किं तमित्यादि । उत्कीर्तनं संशब्दनमभिधानोच्चारणम्, तस्याऽऽनुपूर्वी अनुपरिपाटिः, सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरं क्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना पूर्ववत् । अत्राह- ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याश्च को भेदः ? उच्यते - तत्र द्रव्याणां विन्यासमा पूर्वानुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति ।
७९. एतस्माच्च परतोऽपीति । एतच्च सामान्यकालापेक्षयैव सङ्ख्येयत्वं ज्ञेयम्, आयुष्ककालापेक्षया तु पूर्वकोटिवर्षेभ्यः समयाधिक्येऽप्यसङ्ख्येयवर्षायुष्कत्वव्यवहारस्य परिभाषा ! अत एव समयाद्यधिकपूर्वकोटिवर्षायुष्काणां देवलोक एव गतिः, पृथ्वीकायादिभ्यो देवलोकादिभ्यश्चागतेर्निषेधः, पञ्चमादिगुणस्थानकानां निषेधश्च .. इत्यादि युगलिकविषयाणां नियमानामुपपत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org