________________
श्रीअनुयोगद्वारसूत्रम् [सू०२०७]
१४५ (४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो । सेतं अणाणुपुव्वी। सेतं सामायाराणुपुव्वी।
(सू० २०७) (१) से किं तं भावाणुपुव्वी ? भावाणुपुव्वी तिविहा पण्णत्ता। तंजहापुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ ।। ___ (२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- उदइए १, उवसमिए २, खतिए ३, खओवसमिए ४, पारिणामिए ५, सन्निवातिए ६ । सेतं पुव्वाणुपुव्वी।
(३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- सन्निवातिए ६ जाव उदइए १ । सेतं पच्छाणुपुव्वी। वस्तु लब्ध्वा ततोऽहं तुभ्यं दास्यामि' इत्येवमद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणं निमन्त्रणा, उक्तं च - ___पुव्वगहिएण छंदण निमंतणा होअगहिएणं (आवश्यकनि० ६९७ )ति ९ ।
त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पदिति १० । एवमेते दश प्रकारा: काले यथास्वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाथार्थः ।
इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याऽऽज्ञा-बलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यात् प्रथममुपन्यास: । अपरोपतापकेनापि च कथञ्चित् स्खलने मिथ्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य । एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यौ, गुरुवचनं च तथाकारकरणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य । प्रतिपन्नगुरुवचनेन चोपाश्रयाद् बहिर्निर्गच्छता गुरुपृच्छापूर्वकं निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्या: । बहिर्निगतेन च नैषेधिकीपूर्वकं पुन: प्रवेष्टव्यमिति तदनन्तरं नैषेधिक्याः । उपाश्रयप्रविष्टेन च गुरुमापृच्छ्य सकलमनुष्ठेयमिति तदनन्तरमाप्रच्छनाया: । आपृष्टे च निषिद्धेन पुन: प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनाया: । प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः । एषा च गृहीत एवाशनादौ स्यात्, अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः । इयं च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपसम्पदमन्तरेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति । शेषं पूर्ववदिति ।
अथ भावानुपूर्वीमाह - से किं तमित्यादि । इह तेन तेन रूपेण भवनानि भावा: वस्तुपरिणामविशेषा: औदयिकादयः, अथवा तेन तेन रूपेण भवन्तीति भावास्त एव, यद्वा भवन्ति तै: तेभ्यस्तेषु वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव, तेषामानुपूर्वी परिपाटिर्भावानुपूर्वी । औदयिकादीनां तु स्वरूपं पुरस्तान्न्यक्षेण वक्ष्यते । अत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org