SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० २०६) (१) से किं तं सामायाराणुपुव्वी ? सामायाराणुपुव्वी तिविहा पण्णत्ता । तंजहा - पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुव्वी ३ । (२) से किं तं पुव्वाणुपुव्वी ? इच्छा १ - मिच्छा २- तहक्कारो ३, आवसिया ४, य निसीहिया ५ । आपुच्छणा ६ य, पडिपुच्छा ७, छंदणा ८, य निमंत्रणा ९ । उवसंपया य काले १० सामायारी भवे दसविहा उ || १६ || से तं पुव्वाणुपुव्वी । (३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- उवसंपया १० जाव इच्छा १ । सेतं पच्छावी । १४४ सामाचार्यानुपूर्वी विवक्षुराह से किं तमित्यादि । तत्र समाचरणं समाचारः शिष्टजनाचरितः क्रियाकलापः, तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा- ओघनिर्युक्त्यभिहितार्थरूपा ओघसामाचारी १, इच्छामिच्छाद्यर्थविषया दशधा सामाचारी २, निशीथकल्पाद्यभिहितप्रायश्चित्त-पदविभागविषया पदविभागसामाचारी ३ । उक्तं च सामायारी तिविहा ओहे दसहा पदविभागे (आवश्यकनि० ६६५ ) त्ति । तत्रेह दशधा सामाचारीमाश्रित्योक्तम् - इच्छा-मिच्छा - तहक्कारो इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा विवक्षितक्रियाप्रवृत्त्यभ्युपगमः, तया करणमिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थः १ । मिथ्या असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिँश्चित् कृते मिथ्या वितथमिदं न पुनर्यथा भगवद्भिरुक्तं तथैवैतन्मच्चेष्टितमतो दुष्कृतं दुराचीर्णम् इत्येवमसत्क्रियानिवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् २ | सूत्रव्याख्यानादौ प्रस्तु गुरुभिः कस्मिँश्चिद् वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवं करणं तथाकारः, अविकल्प्य गुर्वाज्ञाभ्युपगम इत्यर्थः ३ । अवश्यं कर्तव्यमावश्यकम्, तत्र भवा आवश्यकी, ज्ञानाद्यालम्बनेनोपाश्रयाद् बहिरवश्यंगमने समुपस्थिते 'अवश्यं कर्तव्यमिदमतो गच्छाम्यहम्' इत्येवं गुरुं प्रति निवेदना आवश्यकीति हृदयम् ४ । निषेधे भवा नैषेधिकी, उपाश्रयाद्बहिः कर्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधोः शेषसाधूनामुत्त्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचना नैषेधिकीति परमार्थ: ५ । भदन्त ! करोमीदमित्येवं गुरो: प्रच्छनमाप्रच्छना ६ । एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किञ्चिद्विलम्ब्य ततश्चेदं चेदं चेह कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना ७ । खद खट्ट संवरणे (का० धा० ९।२३ ) इत्यस्यानेकार्थत्वात् कुरु ममानुग्रहम्, परिभुङ्क्ष्वेदम्' इत्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना ८ । 'इदं Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy