________________
श्रीअनुयोगद्वारसूत्रम् [सू०२०५]
१४३ तंजहा-पुव्वाणुपुव्वी १, पच्छाणुपुव्वी २, अणाणुपुब्बी ३ ।
(२) से किं तं पुव्वाणुपुव्वी ? पुव्वाणुपुव्वी- समचउरंसे १, णग्गोहमंडले २, सादी ३, खुज्जे ४, वामणे ५, हुंडे ६ । सेतं पुव्वाणुपुव्वी ।
(३) से किं तं पच्छाणुपुव्वी ? पच्छाणुपुव्वी- हुंडे ६ जाव समचउरंसे १ । सेतं पच्छाणुपुव्वी।
(४) से किं तं अणाणुपुव्वी ? अणाणुपुव्वी- एयाए चेव एगादियाए एगुत्तरियाए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो। सेतं अणाणुपुव्वी । सेतं संठाणाणुपुव्वी। वक्तुमिष्टानि, अतस्तान्याह - समचउरंसे इत्यादि, तत्र समा: शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्ववर्त्यवयवरूपाश्चतस्रोऽस्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्रं संस्थानम्, तुल्यारोहपरिणाह: सम्पूर्णलक्षणोपेताङ्गोपाङ्गावयव: स्वाङ्गुलाष्टाधिकशतोच्छ्रय: सर्वसंस्थानप्रधान: पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः १ । नाभेरुपरि न्यग्रोधवन्मण्डलम् आद्यसंस्थानलक्षणयुक् तेन विशिष्टाकार न्यग्रोधमण्डलम्, न्यग्रोधो वटवृक्ष:, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भाव: २ । सह आदिना नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थक सादित्वविशेषणम्, सत्यम्, किं त्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतेन आदिना सह यद्वर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकलं तत् सादीति तात्पर्यम् ३ । यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्णम्, शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं लक्षणहीनं तत् कुब्जम् ४ । यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतम्, शेषं तु हीनलक्षणं तद् वामनं कुब्जविपरीतमित्यर्थ: ५ । यत्र सर्वेऽप्यवयवा: प्रायो लक्षणविसंवादिन एव भवन्ति तत् संस्थानं हुण्डमिति ६ । अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वम्, शेषाणां तु यथाक्रमं हीनत्वाद् द्वितीयादित्वमिति । शेषभावना पूर्ववदिति ।
आह- यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहनन-वर्ण-रस-स्पर्शाद्यानुपूर्दोऽपि वक्तव्या: स्युः, तथा च सत्यानुपूर्वीणामियत्तैव विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसङ्ख्यानियम इति, सत्यम्, किन्तु सर्वासामपि तासां वक्तुमशक्यत्वादपलक्षणमात्रमेवायं सङ्ख्यानियम:, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयाम:, सुधिया त्वन्यथाऽपि वाच्यम्, गम्भीरत्वात् परममुनिप्रणीतसूत्रविवक्षाया:, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण ।
न्यग्रोधाकारवत्त्वेऽपि न न्यग्रोधमण्डलसंस्थानं, एकेन्द्रियादीनां सर्वेषां हुंडसंस्थानस्यैव शास्त्रेषु कश्तित्वात्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org