________________
श्रीअनुयोगद्वारसूत्रम् [सू०३९९-४०१]
२५५ (सू० ३९९) कइविधा णं भंते ! दव्वा पण्णता ? गो० ! दुविहा पण्णत्ता । तंजहाजीवदव्वा य अजीवदव्वा य ।।
(सू० ४००) अजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दुविहा पन्नत्ता। तंजहा-अरूविअजीवदव्वा य रूविअजीवदव्वा य ।।
(सू० ४०१) अरूविअजीवदव्वा णं भंते ! कतिविहा पण्णत्ता ? गो० ! दसविहा पण्णत्ता । तंजहा-धम्मत्थिकाए, धम्मत्थिकायस्स देसा, धम्मत्थिकायस्स पदेसा, अधम्मत्थिकाए, अधम्मत्थिकायस्स देसा, अधम्मत्थिकायस्स पदेसा, आगासत्थिकाए, आगासत्थिकायस्स देसा, आगासत्थिकायस्स पदेसा, अद्धासमए ।
यद्येतैर्दृष्टिवादे द्रव्याणि मीयन्ते, तर्हि कतिविधानि भदन्त ! तावद् द्रव्याणि प्रज्ञप्तानि ? गौतम ! द्विविधानि प्रज्ञप्तानि, तदेवाह- जीवदव्वा य अजीवदव्वा य । तत्राल्पवक्तव्यत्वात् पश्चानिर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह- अजीवदव्वा णं भंते ! कइविहेत्यादि सुगम यावद् धम्मत्थिकाय इत्यादि, एकोऽपि धर्मास्तिकायो नयमतभेदात् त्रिधा भिद्यते, तत्र सीमवर्तिखप्रदेशेषु प्रतिष्ठितैस्तावत्प्रदेशैर्निष्पन्नं घनपरिमण्डलसंस्थानं प्राप्यते, मध्ये च (१००००x १०० = १००००००) दशलक्षाणि नभःप्रदेशाः शुषिरतया प्राप्यन्ते । इत्थञ्च तेन स्कन्धेन स्पृष्टा नभःप्रदेशाश्चतुःशताधिकचत्वारिंशत्सहस्राणि प्राप्ताः, अस्पृष्टाश्च दशलक्षाणि प्राप्ता इति स्पष्टापेक्षयाऽस्पष्टा नभःप्रदेशा देशोनाः पञ्चविंशतिगणाः प्राप्ताः । तस्मान्निश्चीयते यदयथा यथा चतुर्दिशं स्थाप्यमानाः परमाणवो वर्धन्ते तथा तथा प्राप्यमाणेन घनपरिमण्डलसंस्थानकेन स्कन्धेन स्पृष्टानां नभःप्रदेशानामपेक्षयाऽस्पृष्टानां नभ प्रदेशानां गुणकोऽपि वर्धत इति । अतोऽसङ्ख्येयनभःप्रदेशावगाढस्कन्धेषु स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानामसङ्ख्येयगुणत्वं नानुपपन्नमिति |
एतेनेदमपि ज्ञायते यदौदारिकशरीरावगाढक्षेत्र आत्मप्रदेशैरनवरुद्धानां नभःप्रदेशानामपेक्षया तदवरुद्धा नभःप्रदेशा द्विगुणाः, औदारिकशरीरपुद्गलावरुद्धाश्च नभःप्रदेशा असङ्ख्येयगुणहीनाः (असङ्ख्येयभागवर्तिनः) एव भवन्तीति । तथा यत औदारिकस्कन्धापेक्षया वैक्रियस्कन्धानामवगाहनाऽसङ्ख्येयगुणहीनाऽत औदारिकस्कन्धेषु स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानां यो गुणको भवति तदपेक्षया वैक्रियस्कन्धेषु स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानां यो गुणको भवति स असङ्ख्येयगुणहीनो भवतीति । एवमेवाहारकादिषु कार्मणान्तेषु स्कन्धेषूत्तरोत्तरमवगाहना यतोऽसङ्ख्येय-असङ्ख्येयगुणहीना भवति, अतः स्पृष्टापेक्षयाऽस्पृष्टानां नभःप्रदेशानां गुणको यथाक्रममसङ्ख्येय-असङ्ख्येयगुणहीनो भवति । तथापि कार्मणस्कन्धेष्वपि स्पृष्टानां नभःप्रदेशानां यो राशिस्तदपेक्षयाऽस्पृष्टानां तेषां राशिरसङ्ख्येयगुणस्तु भवत्येवेति ध्येयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org