SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं ( सू० ४०२ ) रूविअजीवदव्वा णं भंते । कतिविहा पन्नत्ता ? गो० ! चउव्विहा पण्णत्ता । जहा - खंधा, खंधदेसा, खंधप्पदेसा, परमाणुपोग्गला । ( सू० ४०३ ) ते णं भंते! किं संखेज्जा, असंखेज्जा, अणंता ? गोतमा ! संखेज्जा, नो असंखेज्जा, अनंता । से केणट्टेणं भंते ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अनंता ? गो० ! अणंता परमाणुपोग्गला, अणंता दुपएसिया खंधा, जाव अनंता अणंतपदेसिया खंधा, से एतेणं अट्ठेणं गोतमा ! एवं वुच्चति - ते णं नो संखेज्जा, नो असंखेज्जा, अनंता । २५६ ( सू० ४०४) जीवदव्वा णं भंते ! किं संखेज्जा, असंखेज्जा, अणंता ? गो० ! नो संखेज्जा, नो असंखेज्जा, अनंता । से केणट्टेणं भंते ! एवं वुच्चइ- जीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अणंता । गोतमा ! असंखेज्जा णेरइया, असंखेज्जा असुरकुमारा जाव असंखेज्जा थणियकुमारा, असंखेज्जा पुढवीकाइया जाव असंखेजा वाउकाड्या, अनंता वणस्सइकाइया, असंखेज्जा बेंदिया जाव असंखेज्जा चउरिंदिया, असंखेजा पंचेंदिथतिरिक्खजोणिया, असंखेज्जा मणूसा, असंखेज्जा वाणमंतरिया, असंखेज्जा जोइसिया, असंखेज्जा वेमाणिया, अणंता सिद्धा, से एएणं अद्वेणं गोतमा ! एवं वुच्चइजीवदव्वा णं नो संखेज्जा, नो असंखेज्जा, अनंता । सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय: पूर्वोक्तपदार्थः, व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभाग-त्रिभागादिकस्तस्यैव देश:, यथा सम्पूर्णो धर्मास्तिकायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रव्याणीति भावः । ऋजुसूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागाः भागाः पृथगेव द्रव्याणि । एवम् अधर्मा-ऽऽकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः । अद्धासमय इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीता ऽनागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वात्, अत एवेह देश-प्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात् । तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाच्चतुर्द्धा, तत्र स्कन्धा द्व्यणुकादयोऽनन्ताणुकावसानाः, देशास्तु तद्विभाग- त्रिभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एव निरंशा भागाः, परमाणुपुद्गला स्कन्धभावमनापन्नाः एकाकिनः परमाणवः, तानि च रूपिद्रव्याण्यनन्तानि, कथमित्याह- अणंता परमाणुपोग्गला इत्यादि । एते च स्कन्धादयः . प्रत्येकमनन्ता: । अथ जीवद्रव्याणि विचारयितुमाह- जीवदव्वा णं भंते! किं संखेज्जा इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः, वनस्पतयः सिद्धाश्चानन्ताः, अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003230
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2006
Total Pages372
LanguagePrakrit, Sanskrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy