________________
२५४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं चतुर्दिशं तु चत्वारश्चत्वारः परमाणवः । विदिक्षु स्थाप्य एकैको भवेदेवंकृते सति ।।१२।। अणूनां विंशतेरेषामुपर्यणुषु विंशतौ ।। स्थापितेषु युग्मजातं स्याद् घनं परिमण्डलम् ।।९३ ।। एतच्चत्वारिंशदंशं तावत्खांशप्रतिष्ठितम् । (द्रव्यलोके एकादशे सर्गे) अत्र चेयं स्थापना
- स्पृष्टानां खप्रदेशानां विंशतिः ।
- अस्पृष्टानां खप्रदेशानां षोडशकम्
मान-विदिक्षु स्थिताः परमाणवः एषा च प्रतरपरिमंडलसंस्थानस्थापना । तच्च प्रतरपरिमंडलसंस्थानं सीमवर्तिषु विंशत्यभ्रप्रदेशेषु प्रतिष्ठितैर्विंशतिप्रदेशैर्निष्पन्नम् । तथा मध्ये षोडश नभःप्रदेशाः शुषिरतया प्राप्यन्त इत्यपि स्थापनायां दृश्यते । एतस्य प्रतरस्याव्यवहितोपरिवर्तिनि प्रतरेऽप्येवमेव विंशतिनभःप्रदेशेषु प्रतिष्ठिता विंशतिपरमाणुप्रदेशा एतैर्विंशतिप्रदेशैः सहैकं स्कन्धं यदाऽऽरभन्ते तदा चत्वारिंशत्प्रदेशकं तावत्खांशप्रतिष्ठितं युग्मजातघनपरिमण्डलसंस्थानं प्राप्यते । तत्र मध्ये द्वात्रिंशन्नभःप्रदेशाः शुषिरतया प्राप्यन्ते । एतच्च जघन्यप्रदेशकं घनपरिमण्डलसंस्थानम् । यदा त्वेतादंशि त्रिचतुरादीनि प्रतराणि गृह्यन्ते तदा मध्यमप्रदेशकं तत्प्राप्यते । यद्वा चतुर्पु दिक्षु चतूर्णा चतूर्णां परमाणूनां स्थाने पञ्चषादयः परमाणवो गृह्यन्ते तदापि मध्यमप्रदेशकं तत्प्राप्यते । ततश्च यदि चतुर्दिशं दश दश परमाणवः स्थाप्यन्ते विदिक्षु चैकैकस्तदा सीमवर्तिषु चतुश्चत्वारिंशत्खप्रदेशेषु प्रतिष्ठितैश्चतुश्चत्वारिंशत्प्रदेशैर्निष्पन्नं प्रतरपरिमंडलसंस्थानं प्राप्यते । तत्र च मध्ये शतं नभःप्रदेशाः शुषिरतया प्राप्यन्ते । ततश्च यद्येतादंशि दश प्रतराणि गृह्यन्ते तदा चत्वारिंशदधिकेषु चतुःशतेषु सीमवर्तिषु नभःप्रदेशेषु प्रतिष्ठितैस्तावत्परमाणुप्रदेशैरारब्धो घनपरिमण्डलसंस्थानकः स्कन्धः प्राप्यते । तत्र च सहस्रं नभःप्रदेशाः शुषिरतया प्राप्यन्ते । ततश्च तेन स्कन्धेन स्पृष्टानां नभःप्रदेशानामपेक्षयाऽस्पृष्टानां नभःप्रदेशानामाधिक्यं स्पष्टमेव । तच्चाधिक्यं साधिकद्विगुणप्रमाणं ज्ञायते । एवमेव चतुर्दिशं यदि शतं शतं परमाणवः स्थाप्यन्ते विदिक्षु चैकेकस्तदा सीमवर्तिषु चतुरधिकेषु चतुःशतेषु खप्रदेशेषु प्रतिष्ठितैस्तावत्प्रदेशैर्निष्पन्नं प्रतरपरिमण्डलसंस्थानं प्राप्यते, मध्ये च (१०० X १०० = १००००) दश सहस्राणि नभःप्रदेशाः शुषिरतया प्राप्यन्ते । ततश्च यद्येतादृशि शतप्रतराणि गृह्यन्ते तदा चतुःशताधिकेषु चत्वारिंशत्सहस्रेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org