________________
श्रीअनुयोगद्वारसूत्रम् [सू०३९८]
२५३
आह- यदि स्पृष्टा अस्पृष्टाश्च नभः प्रदेशा गृह्यन्ते तर्हि वालाग्रैः किं प्रयोजनम् ? यथोक्तपल्यान्तर्गतनभ:प्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात् सत्यम्, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते तानि च कानिचिद् यथोक्तवालाग्रस्पृष्टैरेव नभः प्रदेशैर्मीयन्ते कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद्वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति ।
तत्थ णं चोय पण्णवगमित्यादि । तत्र नभः प्रदेशानां स्पृष्टा ऽस्पृष्टत्वरूप जातसन्देहः प्रेरकः प्रज्ञापकम् आचार्यमेवमवादीत् - भदन्त ! किमस्त्येतद् यदुत तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाग्रैरस्पृष्टाः ? पूर्वोक्तप्रकारेण वालाग्राणां तत्र निबिडतयाऽवस्थापनाच्छिद्रस्य क्वचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभः प्रदेशाः सन्त प्रच्छकाभिप्रायः । तत्रोत्तरम् - हन्तास्त्येतत् नात्र सन्देहः कर्तव्यः । इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपत्तुमशक्तः पुनर्विनेयः पृच्छति - यथा कोऽत्र दृष्टान्त: ? प्रज्ञापक आह- से जहानामए इत्यादि। अयमत्र भावार्थ:- कूष्माण्डानां पुंस्फलानां भृते कोष्ठके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां बादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भृतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु बिल्वानि प्रक्षिप्तानि, तान्यपि मातानि, एवं तावद् यावत् सर्षपच्छिद्रेषु गङ्गावालुका प्रक्षिप्त माता, एवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टान् नभः प्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् १९० सन्त्येवासङ्ख्याता अस्पृष्टा नभः प्रदेशाः, दृश्यते च निबिडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालिताय: कीलकानां बहूनां तदन्तः प्रवेशः, न चासौ शुषिरमन्तरेण संभवति एवमिहापि भावनीयम् ।
११०. सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशा इति । ननु कूष्माण्ड - बीजपूरकादिभृतेऽपि कोष्ठके प्रक्षिप्तानि बीजपूरक-बिल्वादीनि यतो मान्त्यतः कोष्ठके कूष्माण्डादिभिरस्पृष्टाश्छिद्ररूपा देशा यद्यपि सिध्यन्ति तथापि कूष्माण्डादिभिर्व्याप्तकोष्ठकक्षेत्रापेक्षया तदव्याप्तक्षेत्रमल्पमेव भवतीत्यनुभवसिद्धम् । एवमेव पल्ये वालाग्रैरस्पृष्टानां नभःप्रदेशानां सिद्धावपि स्पृष्टनभःप्रदेशापेक्षयाऽल्पीयस्त्वमेव सिद्ध्यति । किञ्च शैलेशीकरणप्रक्रियया निश्चीयते यद् 'आत्मप्रदेशैरस्पृष्टाः शरीरगताः शुषिरदेशा आत्मप्रदेशस्पृष्टशरीरदेशापेक्षया द्विगुणहीना (अर्धाः) एव भवन्ति, न त्वसङ्ख्येयगुणा इति । ततश्चात्रास्पृष्टनभःप्रदेशानामसङ्ख्येयगुणत्वं कथं श्रद्धेयमिति चेत् ? आगमप्रामाण्यात् तत् श्रद्धेयमिति गृहाण । तथापि हेतुरप्यत्र विचार्यते । तथाहि श्रीउत्तराध्ययननिर्युक्तिलोकप्रकाशादौ पुद्गलसंस्थानानि निरूपितानि । तत्र जघन्यप्रदेशनिष्पन्नयुग्मजातघनपरिमण्डलसंस्थाननिरूपण एवमुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org