________________
७२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ९८) से किं तं णेगम-ववहाराणं अणोवणिहिया दव्वाणुपुव्वी ? णेगमववहाराणं अणोवणिहिया दव्वाणुपुव्वी पंचविहा पण्णत्ता । तंजहा-अट्ठपयपरूवणया १, द्रव्याभ्युपगमपरत्वादयमेव शुद्धः ।
___२६अत्र च द्रव्यानुपूर्येव विचारयितुं प्रक्रान्ता, अत: शुद्धाशुद्धस्वरूपद्रव्यास्तिकमतेनैवासौ दर्शयिष्यते, न पर्यायास्तिकमतेन, पर्यायविचारस्याऽप्रक्रान्तत्वादित्यलं विस्तरेण ।
तत्र नैगम-व्यवहारसंमतामिमां दर्शयितुमाह- से किं तमित्यादि । अत्र निर्वचनम्- नेगमववहाराणं अणोवणिहिआ दव्वाणुपुव्वी पंचविहेत्यादि । अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात् पञ्चविधा पञ्चप्रकारा प्रज्ञप्ता, तद्यथा- अर्थपदप्ररूपणता, भङ्गसमुत्कीर्तनता, भङ्गोपदर्शनता, समवतारः, अनुगमः । एभिः पञ्चभिः प्रकारैर्नैगम-व्यवहारनयमतेन अनौपनिधिक्या: द्रव्यानुपूर्व्या: स्वरूपं निरूप्यत इतीह तात्पर्यम् । तत्र अर्यत इत्यर्थः त्र्यणुकस्कन्धादिस्तधुक्तं तद्विषयं वा पदमानुपूर्व्यादिकम्, तस्य प्ररूपणं कथनम्, तद्भावोऽर्थपदप्ररूपणता 'इयमानुपूर्व्यादिका संज्ञा, अयं च तदभिधेयस्त्र्यणुकादिरर्थ: संज्ञी' इत्येवं संज्ञासंज्ञिसम्बन्धकथनमात्रं प्रथमं २ कर्तव्यमिति भावार्थः । तेषामेवानुपूर्व्यादिपदानां समुदितानां वक्ष्यमाणन्यायेन सम्भविनो पर्यायः पर्यायर्थिकस्य विषयः । ततश्च स्वाभ्युपगतस्यार्थस्यावस्थानकालो यथा यथाऽल्पोऽल्पतरश्च भवति तथा तथा द्रव्यार्थिकनयस्य पर्यायार्थिकनयविषयसंवलितत्वं शक्रेणापि निवारयितुमशक्यमेव । तदेव तस्य कलङ्कितत्वमशुद्धत्वमिति यावत् । परमाणोः परमाणुत्वेन योऽवस्थानकालस्तदपेक्षया कृष्णपरमाणुत्वेन योऽवस्थानकालस्तस्याल्पत्वं स्पष्टमेव । अतः परमाणुत्वेन परमाणुमेव द्रव्यरूपतया मन्वानस्य सङ्ग्रहनयस्यापेक्षया कृष्णादिपरमाणुं द्रव्यरूपतया मन्वानयो गमव्यवहारयोरशुद्धत्वमपि स्पष्टमेव ।
२६. अत्र च द्रव्यानुपूर्व्यवेत्यादि । ननु ऋजुसूत्रनयापेक्षया शब्दस्य पर्यायपरत्वमधिकम् । एवं शब्दाद्यपेक्षया समभिरूढादेः पर्यायपरत्वमधिकम् । तथापि ऋजुसूत्रापेक्षया शब्दस्य, शब्दाद्यपेक्षया समभिरूढादेः शुद्धत्वं शुद्धतरत्वमन्यत्रानेकत्र यदुक्तं तेन ज्ञायते यद् यथा यथा पर्यायपरत्वं तथा तथा शुद्धत्वमिति । तदत्र किमर्थं विपरीतं भण्यते यन्नैगमव्यवहारौ पर्यायाभ्युपगमपरतयाऽशुद्धावितीत्याशङ्कानिराकरणायोक्तमत्रात्र चेत्यादि । तदाशयस्त्वयं ऋजुसूत्रादीनां पर्यायास्तिकनयत्वेन पर्यायपरत्वं शुद्धत्वेन व्यवह्रियते । अत ऋजुसूत्राद्यपेक्षया शब्दादीनां शुद्धशुद्धतरत्वादिकम्। किन्तु नैगमादयस्तु द्रव्यास्तिकनयाः। अतस्तेषां पर्यायपरत्वमशुद्धत्वेन द्रव्यपरत्वं च शुद्धत्वेन व्यवह्रियते । प्रस्तुते च द्रव्यानुपूर्वीविचारस्य प्रस्तुतत्वाद् द्रव्यास्तिकमतेनैव निरूपणम् । अतो द्रव्यपरः सङ्ग्रहोऽत्र शुद्धत्वेनोक्तः, पर्यायपरौ च नैगमव्यवहारावशुद्धत्वेनेति ।
२७. कर्तव्यमिति भावार्थः। नन्वत्र किमनूद्य कस्य विधानम् ? यः कम्बूग्रीवादिमान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org