________________
श्री अनुयोगद्वारसूत्रम् [सू०९९]
भंगसमुक्कित्तणया २, भंगोवदंसणया ३, समोयारे ४, अणुगमे ५ ।
( सू० ९९ ) से किं तं णेगम - ववहाराणं अट्ठपयरूवणया ? णेगम-ववहाराणं अट्ठपयरूवणया तिपएसिए आणुपुव्वी, चउपएसिए आणुपुव्वी जाव दसपएसिए आणुपुव्वी, संखेज्जपदेसिए आणुपुव्वी, असंखेज्जपदेसिए आणुपुव्वी, अणंतपएसिए आणुपुव्वी । विकल्पा भङ्गा उच्यन्ते, भज्यन्ते विकल्प्यन्ते इति कृत्वा, तेषां समुत्कीर्तनं समुच्चारणं भङ्गसमुत्कीर्तनम्, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां द्व्यादिसंयोगभङ्गानां च समुच्चारणमित्यर्थः । तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं भङ्गोपदर्शनम्, तद्भावो भङ्गोपदर्शनता । भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चारणीयम्, भङ्गोपदर्शने तु तदेव स्वविषयभूतेनार्थेन सहोच्चारयितव्यमिति विशेष: । तेषामेवानुपूर्व्यादिद्रव्याणां स्वस्थान - परस्थानान्तर्भावचिन्तनप्रकार: समवतार: । तथा तेषामेवानुपूर्व्यादिद्रव्याणां सत्पदप्ररूपणतादिभिरनुयोगद्वारैरनुगमनं विचारणमनुगमः ।
तत्राऽऽद्यभेदं विवरीषुराह से किं तं नेगम-ववहाराणमित्यादि । अथ केयं नैगम-व्यवहारयोः सम्मता अर्थपदप्ररूपणतेति । अत्रोत्तरमाह - नेगम - ववहाराणमित्यादि । तत्र त्रयः प्रदेशाः परमाणुत्रयलक्षणा यत्र स्कन्धे स आनुपूर्वीत्युच्यते, एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते । परमाणुपोग्गले त्ति एकः परमाणुः परमाण्वन्तरासंसक्तोऽनानुपूर्वीत्यभिधीयते,
प्रदेश यत्र स प्रदेशिकः स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्त्रिप्रदेशिकादयः स्कन्धा आनुपूर्व्यः, बहवश्चैकाकिपरमाणवोऽनानुपूर्व्यः, बहूनि च द्व्यणुकस्कन्धद्रव्याण्यवक्तव्यकानि । आनुपूर्व्यं प्रक्रान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थ: । इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तम्, सा च यत्रैवादिमध्याऽन्तलक्षणः सम्पूर्णो गणनानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्च त्रिप्रदेशिकादिस्कन्धेष्वेव, तथाहि - यस्मात् परमस्ति न पूर्वं स आदि:, यस्मात् पूर्वमस्ति न परं सोऽन्तः, तयोश्चान्तरं मध्यमुच्यते, अयं संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ, तस्यैकद्रव्यत्वेनाऽऽदिमध्याऽन्तव्यवहाराभावात्, अत एवायमनानुपूर्वीत्वेनोक्तः, नापि स घटः इत्यत्रेव प्रसिद्धं वाच्यार्थमनूद्य वाचकस्य पदस्य विधानमथवा “घट इति यत्पदं तस्य कम्बुग्रीवादिमत्पदार्थः वाच्यः" इत्यत्रेव प्रसिद्धपदमनूद्य वाच्यार्थस्य घटस्य विधानमिति चेत् ? प्रथमं विकल्पं गृहाण । 'त्र्यणुकादिको योऽर्थस्तस्यानुपूर्वीति संज्ञा ज्ञेये' त्येवमर्थमुद्देश्य पदस्य विधानमत्र मन्तव्यम्... अत एव अर्थस्य यत्पदं तस्य प्ररूपणताऽर्थपदप्ररूपणतेत्येवं द्वारनिर्देशः, न तु पदस्य योऽर्थस्तस्य प्ररूपणता पदार्थप्ररूपणतेत्येवमिति ।
Jain Education International
For Private & Personal Use Only
७३
www.jainelibrary.org