________________
७४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं परमाणुपोग्गले अणाणुपुव्वी । दुपएसिए अवत्तव्वए । तिपएसिया आणुपुव्वीओ जाव अणंतपएसिया आणुपुव्वीओ। परमाणुपोग्गला अणाणुपुव्वीओ। दुपएसिया अवत्तव्वगाई। से तं णेगम-ववहाराणं अट्ठपयपरूवणया। व्यणुकस्कन्धे, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावात् ।
अत्राऽऽह- ननु पूर्वस्यानु पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति पूर्वं व्याख्यातम्, एतच्च व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्, तत: सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ? नैतदेवम्, यतो यथा मेर्वादिके क्वचित् पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभाग: प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवम्, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात् । यद्येवं परमाणुवद् व्यणुकस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते ? सत्यम्, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ, तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वादवक्तव्यकमेव व्यणुकस्कन्धः । तस्माद्व्यवस्थितमिदम्- आदि-मध्या-ऽन्तभावेनावधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्भावस्य सद्भावात् त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, व्यणुकोऽवक्तव्यकमिति । एवं संज्ञासंज्ञिसम्बन्धकथनरूपा अर्थपदप्ररूपणा २८कृता भवति । यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादिबहुवचननिर्देश: किमर्थम्, एकत्वमात्रेणैव संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात् ? सत्यम्, किन्त्वानुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगम-व्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः।।
अत्राऽऽह- नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येवं निर्देशो युज्यते, पश्चानुपूर्वीक्रमाश्रयणे तु व्यत्ययेन युक्तः, तत्
२८. कृता भवति...। इदमत्र हृदयम्... पूर्वस्यानु = पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति व्युत्पत्तिलभ्यः पूर्वपश्चाद्भाव आनुपूर्वीपदस्य व्युत्पत्तिनिमित्तम्... असाङ्कर्येण पूर्वपश्चाद्भावस्तु प्रवृत्तिनिमित्तम्... व्यणुकेऽसाङ्कर्येण पूर्वपश्चाद्भावस्य प्रवृत्तिनिमित्तस्याभावान्नानुपूर्वीति पदस्य प्रवृत्तिः। अत आनुपूर्व्यनानुपूर्वीत्युभयपदावाच्यत्वेनावक्तव्येति पदस्य ट्यणुके प्रवृत्तिः । नन्वसाङ्कर्येण पूर्वपश्चाद्भाव इत्यत्र साङ्कर्य इति पदस्य कोऽर्थः ? व्यणुके मध्यवर्तिन एकस्यावधिभूतस्याभावाद् द्वयोरप्यवधिभूतत्वेन विवक्षणमावश्यकमतः प्रथमापेक्षया द्वितीयस्मिन् परमाणौ पश्चाद्भावः, स्वापेक्षया तु पश्चाद्भावाभावात् पूर्वभाव इत्येवं पूर्वभावस्य पश्चाद्भावस्य साङ्कर्यम् । प्रथमपरमाणावप्येवमेव साङ्कर्यम्...।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org