________________
७५
श्रीअनुयोगद्वारसूत्रम् [सू०१००,१०१]
(सू० १००) एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए किं पओयणं ? एयाए णं णेगम-ववहाराणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कीरइ ।
(सू० १०१) से किं तं णेगम-ववहाराणं भंगसमुक्कित्तणया ? णेगम-ववहाराणं भंगसमुक्कित्तणया- अत्थि आणुपुव्वी १, अत्थि अणाणुपुव्वी २, अत्थि अवत्तव्वए ३, अत्थि आणुपुव्वीओ ४, अत्थि अणाणुपुव्वीओ ५, अत्थि अवत्तव्वयाइं ६। कथं क्रमद्वयमुल्लङ्घयान्यथा निर्देश: कृत: ? सत्यमेतत्, किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः, यदि वा त्र्यणुक-चतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, ततश्चेत्थं द्रव्यहान्या २९पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । सेतमित्यादिनिगमनम् । ___एताए णमित्यादि, एतया अर्थपदप्ररूपणतया किं प्रयोजन-मिति, अत्राऽऽह- एताए णमित्यादि । एतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते, इदमुक्तं भवति - अर्थपदप्ररूपणतायां संज्ञा-संज्ञिव्यवहारो निरूपित:, तस्मिंश्च सति एव भङ्गका: समुत्कीर्तयितुं शक्यन्ते, नान्यथा, संज्ञामन्तरेण ३°निर्विषयाणां भङ्गानां प्ररूपयितुमशक्यत्वात्, तस्माद् युक्तमुक्तमेतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियत इति । ___ तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाह - से किं तमित्यादि प्रश्नः, अत्र चानुपूर्व्यादिपदत्रयेणैकवचनान्तेन त्रयो भङ्गा भवन्ति, बहुवचनान्तेनापि तेन त्रय एव भङ्गाः, एवमेतेऽसंयोगत: प्रत्येक भङ्गा: षड् भवन्ति । संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विकसंयोगा:, एकैकस्मिंस्तु द्विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावत: त्रिष्वपि द्विक(सं)योगेषु द्वादश भङ्गा: संपद्यन्ते । त्रिकसंयोगस्त्वत्रैक एव, तत्र च एकवचन-बहुवचनाभ्यामष्टौ भङ्गाः, सर्वेऽप्यमी षड्विंशति: । अत्र स्थापना
आनुपूर्वी १, अनानुपूर्वी १, अवक्तव्यक १, इत्येकवचनान्तास्त्रय: । आनुपूर्वी ३, अनानुपूर्वी
२९. पूर्वानुपूर्वीक्रमनिर्देश एवायम्... यद्वा ट्यणुकेऽवक्तव्यत्वमभिप्रेतम्, तच्च न येन केनचिदपि रूपेण संभवति, व्यणुकत्व-स्कन्धत्व-पुद्गलत्वादिरूपेण तस्य वक्तव्यत्वसंभवात्, ततश्चानुपूय॑नानुपूर्वीत्वरूपेणैव तस्यावक्तव्यत्वं मन्तव्यम् । अतश्चानुपूर्व्यनानुपूर्वीनिरूपणमन्तरेण तदानुपूर्वीनानुपूर्वीत्वरूपस्य ज्ञातुमशक्यत्वेन पूर्वमानुपूर्व्यनानुपूर्वीनिरूपणमवश्यकर्तव्यम्। किञ्च प्रतियोगिज्ञानाधीनज्ञानविषयत्वादभावस्य नानुपूर्वीनिरूपणं विनाऽनानुपूर्व्या ज्ञानं शक्यम् । अतः पूर्वमानुपूर्वी ततोऽनानुपूर्वी तदनन्तरं चावक्तव्यकमित्येवं क्रमोऽङ्गीकृतोऽत्रेत्ययमपि समाधानप्रकारो ज्ञेयोऽत्र।
३०. निर्विषयाणामिति । निराख्यानां वाचकशब्दशून्यानामिति यावत् । ततश्च शब्दाभावे प्ररूपणस्याशक्यसम्भवत्वं स्पष्टमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org