________________
श्रीअनुयोगद्वारसूत्रम् [सू०९७]
७१ (सू० ९७) तत्थ णं जा सा अणोवणिहिया सा दुविहा पन्नत्ता । तंजहा- णेगमववहाराणं १, संगहस्स य २ । बहुतरवक्तव्यत्वेन प्रथमं व्याख्यायते, बहुतरवक्तव्ये हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगतः कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यत इति २४गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिकीस्वरूपं विवरीषुराह- तत्थ णमित्यादि, तत्र याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, तद्यथा- मैगमव्यवहारयोः सङ्ग्रहस्य च, नैगमव्यवहारसंमता सङ्ग्रहसंमता चेत्यर्थः, अयमत्र भावार्थ:- इहौघत: सप्त नया भवन्ति नैगमादयः, उक्तं चनैगम-सङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वैवंभूता नया: (तत्त्वार्थ० १।३३)। एते च द्रव्यास्तिकपर्यायास्तिकलक्षणे नयद्वयेऽन्तर्भाव्यन्ते, द्रव्यमेव परमार्थतोऽस्ति न पर्याया इत्यभ्युपगमपरो द्रव्यास्तिकः, पर्याया एव वस्तुत: सन्ति न द्रव्यमित्यभ्युपगमपर: पर्यायास्तिकः, तत्राऽऽद्यास्त्रयो द्रव्यास्तिकः, शेषास्तु पर्यायास्तिकः, पुनर्रव्यास्तिकोऽपि सामान्यतो द्विविध:- अविशुद्धो विशुद्धश्च, तत्र नैगम-व्यवहाररूपोऽविशुद्ध:, सङ्ग्रहरूपस्तु विशुद्ध:, कथम् ? यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं चाऽविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाणुत्वादिसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, २५एतच्च किलानेकताद्यभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुद्धम्, तत: शुद्ध
२४. गुणाधिक्यं पर्यालोच्येति । न चायमेकान्तो ज्ञेयो यद् बहुतरवक्तव्यं वस्त्वेव प्रथममुच्यत इति, क्वचित् सूचिकटाहन्यायं पुरस्कृत्याल्पतरवक्तव्यस्य वस्तुनोऽपि प्रथममुच्यमानत्वात्।
२५. एतच्च किलानेकतेत्यादि। नन्वनेकताद्यभ्युपगमस्य कलङ्कत्वं कथं येन तेनाकलङ्कितत्वाच्छुद्धत्वं सङ्ग्रहस्येति चेत् ? इत्थमिति गृहाण-गुणनमनेककरणं, परिगमनं पर्याय इति गुणपर्यायशब्दयोर्युत्पत्तिरनेककरणत्वमेव च तयोर्द्वयोरर्थः । गुणपर्यायाश्च प्रधानतया पर्यायास्तिकनयविषयाः। तथा च द्रव्यास्तिकनयस्य यावतांशेन गुणपर्यायाभ्युपगमपरत्वं तावतांशेन तस्य पर्यायास्तिकनयसंवलितत्वं तद्वशादशुद्धत्वञ्च बलादप्यापतत्येव । सङ्ग्रहस्तु सर्वेषां परमाणूनां परमाणुत्वेनैकत्वमेव मन्यते, नैगमव्यवहारौ त्वयं कृष्णः परमाणुरयं तु नील इत्यादिरूपेणानेकत्वं मन्वानौ तावतांशेन कृष्णादिगुणानप्यभ्युपगच्छत एव, अनेककरणत्वस्य गुणार्थत्वात्। तथा च तयोः पर्यायास्तिकनयसंवलितत्वं, कलङ्कितत्वमशुद्धत्वञ्चानिवारितमेव | अत इदं फलितं भवति यद् द्रव्यास्तिकनयस्यानेकत्वाभ्युपगमः कलङ्क इति।
अत्रानेकताद्यभ्युपगमेत्यादिवाक्यांशस्थादादिशब्दाद् अनित्यत्वाद्यभ्युपगमोऽपि कलङ्करूपेण ज्ञेयः। तथाहि- त्रैकालिकमविचलितरूपं द्रव्यं द्रव्यार्थिकस्य विषयः। तद्विपरीतः क्षणिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org