________________
७०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ९६) तत्थ णं जा सा उवणिहिया सा ठप्पा । ऽनन्ताणुकावसान एकैक: स्कन्धोऽनौपनिधिक्यानुपूर्वीत्वेनाभिप्रेतः, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित् परिपाटिरस्ति विशिष्टैकपरिणामपरिणतत्वात् तेषाम्, तत् कथमिहानुपूर्वीत्वम् ? सत्यम्, किन्तु त्र्यादिपरमाणूनामादिमध्याऽवसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्यते ।
तत्थ णमित्यादि, तत्र याऽसावौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या सांन्यासिकी, तिष्ठतु तावदल्पतरवक्तव्यत्वेन तस्या उपरि वक्ष्यमाणत्वादिति भावः । अनौपनिधिकी तु पश्चानिर्दिष्टाऽपि यदि कखगक्रमेणावस्थिताः स्युस्तदा वयं तं क्रमं परावृत्त्य गखक-खकग इत्यादिक्रमेण तेषामवस्थानं कर्तुं न पारयामः । अतः पूर्वानुपूर्व्यादिक्रमेण विरचनाऽभावस्यैव भावादनौपनिधिकत्वम् । नन्वित्थं त्वावश्यकश्रुतस्कन्धस्याप्यनौपनिधिकत्वमेव स्याद्, तत्रापि सामायिक-चतुर्विंशतिस्तववन्दनादिक्रमं परित्यज्य चतुर्विंशतिस्तवसामायिकेत्यादिक्रमेण तदनुष्ठानेऽस्माकमधिकाराभावादिति चेत् ? न, अनुष्ठाने क्रमपरावर्तनाधिकाराभावेऽपि निरूपणे तदभावाभावात्। अयमाशयः प्रज्ञापकः शिष्यबुद्धिवैशद्यादिकं प्रयोजनमपेक्ष्य प्रत्याख्यानकायोत्सर्गेत्यादिपश्चानुपूर्वीक्रमेण यदि वा कायोत्सर्ग-प्रत्याख्यानेत्याद्यनानुपूर्वीक्रमेण यदि षडध्ययनानां प्ररूपणां करोति, न तत्र कश्चित् दोषो न वा कश्चित् प्रतिषेद्धा । अतः पूर्वानुपूादिक्रमेण विरचनस्यात्र सम्भवादेवौपनिधिकत्वं, न त्वनौपनिधिकत्वम् । स्कन्धगतपरमाणुत्रये तु निरूपणेऽपि नैवं विरचनस्य सम्भवः, अयं 'क' परमाणुः स चेदृग्वर्णाद्यापन्नः, एष 'ख' परमाणुः, स त्वेतादृग्वर्णाद्यापन्न इत्यादिवाग्व्यवहारस्यासम्भवाद्। .
___ यदि सम्पूर्णपुद्गलास्तिकायस्य निरूपणमभिलषितं, तर्हि कदाचिन्निरूपयिता प्रथम परमाणुमुक्त्वा तदनन्तरं द्यणुकं कथयति, तत्पश्चात् त्र्यणुकमित्येवं क्रमेण सर्वोत्कृष्टमचित्तमहास्कन्धं यावत् निरूपयति । अस्मिंस्तु निरूपणप्रस्तावे तेन निरूपयित्रा परमाणुसमीपे ट्यणुको व्यवस्थापितः, तत्समीपे च त्र्यणुकः... इत्येवं पूर्वानुपूर्वीक्रमेण सम्पूर्णः पुद्गलास्तिकायो व्यवस्थापितः। कदाचित्तु स एव निरूपयिताऽन्यो वा शिष्यबुद्धिवैशद्यादिकं निमित्तमुपलभ्योत्कृष्टमचित्तमहास्कन्धं प्रथमं निरूप्य तदनन्तरमेकेन परमाणुना न्यूनमचित्तमहास्कन्धं निरूपयतीत्येवं क्रमेण परमाणुं यावत् निरूपयति । एतस्मिंस्तु प्रस्तावे तेन निरूपयित्रा तत्तत्स्कन्धस्य सामीप्ये तत्तत्स्कन्धापेक्षयैकेन परमाणुना न्यूनस्य स्कन्धस्य निधानं निधिर्निक्षेपो न्यासः स्थापनेति यावत् कृता अर्थात् पश्चानुपूर्वीक्रमेण विरचना कृता। एवं कदाचित्त्वनानुपूर्वीक्रमेणापि विरचना शक्यसम्भवा । अतः पुद्गलास्तिकायस्यौपनिधिक्यानुपूर्वीत्वं ज्ञेयम् । एवमेव धर्मास्तिकायादिषड्द्रव्यादीनामप्यौपनिधिकत्वं ज्ञेयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org