________________
श्रीअनुयोगद्वारसूत्रम् [सू०९४-९५]
नामाणुपुव्वी १, ठवणाणुपुव्वी २, दव्वाणुपुव्वी ३, खेत्ताणुपुव्वी ४, कालाणुपुव्वी ५, उक्कित्तणाणुपुव्वी ६, गणणाणुपुव्वी ७, संठाणाणुपुव्वी ८, सामायारियाणुपुव्वी ९, भावाणुपुव्वी १० ।
(सू० ९४) से किं तं णामाणुपुव्वी ? नाम-ठवणाओ तहेव ।
(सू० ९५) दव्वाणुपुव्वी जाव से किं तं जाणगसरीर-भवियसरीरवइरित्ता दव्वाणुपुव्वी ? जाणगसरीरभवियसरीरवइरित्ता दव्वाणुपुव्वी दुविहा पण्णत्ता । तंजहा- उवणिहिया य १, अणोवणिहिया य २। अत्र निर्वचनम्- आणुपुव्वी दसविहेत्यादि, इह हि पूर्वं प्रथममादिरिति पर्याया:, पूर्वस्य अनु पश्चादनुपूर्वम्, तस्य भाव इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी, अनुक्रमोऽनुपरिपाटीति पर्याया:, त्यादिवस्तुसंहतिरित्यर्थः । इयमानुपूर्वी दशविधा दशप्रकारा प्रज्ञप्ता, तद्यथा- नामानुपूर्वी, स्थापनानुपूर्वी, द्रव्यानुपूर्वी, क्षेत्रानुपूर्वी, कालानुपूर्वी, उत्कीर्तनानुपूर्वी, गणनानुपूर्वी, संस्थानानुपूर्वी, सामाचार्यानुपूर्वी, भावानुपूर्वीति।
अत्र नाम-स्थापनानुपूर्वीसूत्रे नाम-स्थापनावश्यकसूत्रव्याख्यानुसारेण व्याख्येये, द्रव्यानुपूर्वीसूत्रमपि द्रव्यावश्यकवदेव भावनीयं यावत् जाणगसरीरभवियसरीरवइरित्ता दव्वाणुपुव्वी दुविहेत्यादि। तत्र निधानं निधिर्निक्षेपो न्यासो विरचना प्रस्तार: स्थापनेति पर्यायाः, तथा च लोके निधेहीदं निहितमिदमित्यत्र निपूर्वस्य धास्रो निक्षेपार्थः प्रतीयत एव, उप सामीप्येन निधिरुपनिधिः, एकस्मिन् विवक्षितेऽर्थे पूर्वं व्यवस्थापिते तत्समीप एवापरापरस्य वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण यनिक्षेपणं स उपनिधिरित्यर्थः, उपनिधि: प्रयोजनं यस्या आनुपूर्व्या: सा औपनिधिकीति प्रयोजनार्थे इकण्प्रत्यय:, सामायिकाध्ययनादिवस्तूनां वक्ष्यमाणपूर्वानुपूर्व्यादिप्रस्तारप्रयोजना आनुपूर्वी औपनिधिकीत्युच्यत इति तात्पर्यम् । अनुपनिधि: वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेणाविरचनं प्रयोजनमस्या इत्यनौपनिधिकी, यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा त्र्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी २३अनौपनिधिकीत्युच्यते इति भाव: । आह- नन्वानुपूर्वी परिपाटिरुच्यते, भवतां च त्र्यणुकादिको
२३. अनौपनिधिकीत्युच्यते इति भाव इति । ननु पूर्वस्य अनु = पश्चाद् अनुपूर्वं, तस्य भाव आनुपूर्वीत्यानुपूर्वीशब्दस्य व्युत्पत्तिः । अग्रे च ९९ तम सूत्रव्याख्यायां त्र्यणुकादावादिमध्यान्तलक्षणसम्पूर्णगणनानुक्रमस्योपपत्तिर्वक्ष्यते । ततश्च त्र्यणुकादावानुपूर्वीत्वस्य सत्त्वात् पूर्वानुपूर्व्यादिक्रमेण विरचनाऽभावः कथम् ? त्रयाणां परमाणूनां मध्ये यः परमाणुस्तदपेक्षया पूर्व-पश्चाद्भावस्यान्ययोर्द्वयोः परमाण्वोः सम्भवात्पूर्वानुपूर्वीक्रमस्यापि सम्भवादिति चेत् ? न, कथमिति चेदित्थं-वयमसत्कल्पनां कुर्मः | त्रयाणां परमाणूनां क्रमशः क, ख, ग इति संज्ञाः कल्पनीयाः। ततश्च त्रयः परमाणवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org