________________
६८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ९२) अहवा उवक्कमे छव्विहे पण्णत्ते । तंजहा-आणुपुव्वी १, नामं २, पमाणं ३, वत्तव्वया ४, अत्थाहिगारे ५, समोयारे ६ ।
(सू० ९३) से किं तं आणुपुव्वी ? आणुपुव्वी दसविहा पण्णत्ता । तं जहागुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ।।१।। (प्रशम० ६९) ,अन्यच्चजुत्तं गुरुमयगहणं नाऊण तयं जहट्टियं तत्तो । जह होइ सुप्पसन्नं तह जइयव्वं गुणत्थीहिं ।।१।। गुरुचित्तायत्ताई वक्खाणंगाई जेण सव्वाइं । तेण जह सुप्पसन्नं होइ तयं तं तहा कुज्जा ।।२।। आगारिंगियकुसलं जइ सेयं वायसं वए पुज्जा । तह वि य सिं न विकूडे विरहम्मि य कारणं पुच्छे ।।३।। निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहइ ? । संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ।।४।।
(विशेषावश्यकभाष्ये ९३५, ९३१, ९३३, ९३४) इत्यादि । भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वम्, शेषास्तु नाम-स्थापना-द्रव्याधुपक्रमा अनर्थका एव, नैतदेवम्, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशन-पान-वस्त्र-पात्रौषधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रव्रज्यालग्नादिकालमुपक्रामतो विनेयस्य द्रव्य-क्षेत्र-कालोपक्रमा अपि सार्थका एव, नाम-स्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽप्युपक्रमसाम्यादत्रोक्तौ, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्ते उपक्रमसाम्याच्चात्रोक्ता इत्यदोषः।
तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह- अहवा उवक्कमे इत्यादि। अथवा अनन्तरं य: प्रशस्तभावोपक्रम: उक्त: स द्विविधो द्रष्टव्य:-गुरुभावोपक्रम: शास्त्रभावोपक्रमश्च, शास्त्रलक्षणो भाव: शास्त्रभावस्तस्योपक्रमः शास्त्रभावोपक्रम:, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्रभावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह- अहवा उवक्कमे इत्यादि, अथवेति पक्षान्तरसूचक: उपक्रम:, प्रथमपातनापक्षे शास्त्रीयोपक्रमो द्वितीयपातनापक्षे तु शास्त्रभावोपक्रमः, षविध: षट्प्रकार: प्रज्ञप्त:, तद्यथा-आनुपूर्वी १, नाम २, प्रमाणम् ३, वक्तव्यता ४, अर्थाधिकारः ५, समवतार: ६ । एतेषां च शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव वक्ष्यामः ।
तत्राऽऽनुपूर्वीस्वरूपनिरूपणार्थमाह- से किं तमित्यादि । अथ किं तदानुपूर्वीवस्त्विति प्रश्नार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org