________________
६७
श्रीअनुयोगद्वारसूत्रम् [सू०९०,९१] ।
(सू० ९०) ( से किं तं ) अपसत्थे भावोवक्कमे ? अपसत्थे भावोवक्कमे डोडिणिगणियाऽमच्चाईणं । ( सेतं अपसत्थे भावोवक्कमे ।)
(सू० ९१) ( से किं तं ) पसत्थे भावोवक्कमे ? पसत्थे भावोवक्कमे गुरुमादीणं। (सेतं पसत्थे भावोवक्कमे । सेतं नोआगमतो भावोवक्कमे । सेतं भावोवक्कमे ।) इत्याद्यभिधाय गाढं कुट्टयित्वा गृहान्निष्काशिता । तया चाऽऽगत्य सर्वं मात्रे निवेदितम्, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपं 'वत्स ! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यम्' इत्यादि किञ्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता- वत्से! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति ।
तथैकस्मिन्नगरे चतुःषष्टिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्य: सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद् राजपुत्रादिरागच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव बाढं प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरमर्थजातं तस्यै प्रयच्छन्तीति ।
तथैकस्मिन्नगरे कश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथि गच्छता राजतुरङ्गमेन क्वचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशपृथिव्या: स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति चिन्तयश्चिरमवलोकितवाँश्च, तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापि विदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिता: सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहा:, अन्यदा च तेनैव प्रदेशेन गच्छता भूपेन दृष्टं पृष्टं चाहो ! मानससरोवद्रमणीयं केनेदं खानितं सर: ?, अमात्यो जगाद देव ! भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्कारणाय निरूपित इति, अत: सचिवो यथावृत्तं सर्वं कथितवान्, अहो ! परचित्तोपलक्षकत्वममात्यस्येति विचिन्त्य परितुष्टो राजा तस्य वृत्तिं वर्द्धयामासेति । तदेवमित्यादिक: संसारफलोऽपरोऽप्यप्रशस्तभावोपक्रमः। ___ अथ प्रशस्तभावोपक्रममाह- पसत्थो गुरुमाईणं ति, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद् भावोपक्रमणं स प्रशस्तभावोपक्रमः ।
आह-नन्वनुयोगद्वारविचारोऽत्र प्रक्रान्त:, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किञ्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुत:, व्याख्यानानुपकारित्वात्, तदेतदयुक्तम्, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात्, उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org