________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ८७) से किं तं भावोवक्कमे ? भावोवक्कमे दुविहे पण्णत्ते । तं जहा- आगमतो य १, नोआगगमतो य २।
(सू० ८८) ( से किं तं ) आगमओ भावोवक्कमे ? आगमओ भावोवक्कमे जाणए उवउत्ते । ( सेतं आगमओ भावोवक्कमे )।
(सू० ८९) ( से किं तं ) नोआगमतो भावोवक्कमे ? नोआगमतो भावोवक्कमे दुविहे पण्णत्ते । तंजहा - पसत्थे य १, अपसत्थे य २।
छायाएँ नालियाए व परिकम्मं से जहत्थविन्नाणं ।। रिक्खाइचारेहिं व तस्स विणासो विवज्जासो ॥१॥ ( विशेषावश्यकभा०९२७ ) इत्यादि । सेत्तमित्यादि निगमनम् ।
अथ भावोपक्रमाभिधानार्थमाह- से किं तमित्यादि । भावोपक्रमो द्विविध: प्रज्ञप्त:, तद्यथाआगमतश्च नोआगमतश्च, तत्रोपक्रमशब्दार्थज्ञ: तत्र चोपयुक्त आगमतो भावोपक्रम: । से किं तं नोआगमओ इत्यादि, अत्रोत्तरम्- नोआगमओ भावोवक्कमे दुविहे इत्यादि, इहाभिप्रायाख्यो जीवद्रव्यपर्यायो भावशब्देनाभिप्रेत:, उक्तं च- भावाभिख्या: पञ्च स्वभाव-सत्ता-ऽऽत्म-योन्यभिप्राया: ( ) ततश्च भावस्य परकीयाभिप्रायस्योपक्रमणं यथावत् परिज्ञानं भावोपक्रमः । स च द्विविध:प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्ताभिधित्सया आह- से किं तमित्यादि। अत्र निर्वचनम्- अप्पसत्थो डोडिणि-गणिआ-अमच्चाईणं ति, इदमिह तात्पर्यम्-ब्राह्मण्या वेश्यया अमात्येन च यत् परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तो भावोपक्रमः, संसारफलत्वात् । तत्र कथं ब्राह्मण्यादिभि: परभावोपक्रमणमकारीति ?, अत्रोच्यते - ____ एकस्या ब्राह्मण्यास्तिस्र: पुत्रिका: । तासां च परिणयनानन्तरं तथा करोमि यथैता: सुखिता भवन्तीति विचिन्त्य माता ज्येष्ठदुहितरं प्रत्यवोचत्-यदुत त्वया वासभवनसमागमे स्वभर्ता कञ्चिदपराधमुद्भाव्य मूर्ध्नि पादप्रहारेण हन्तव्य:, हतश्च यदनुतिष्ठति तन्ममाऽऽख्येयम्, कृतं च तया तथैव, सोऽप्यतिस्नेहतरलितमना ‘अयि प्रियतमे! पीडितस्ते सुकुमालश्चरणो भविष्यति' इत्यभिधानपूर्वक तस्याश्चरणोपमर्दनं चकार, अमुं च व्यतिकरं सा मात्रे निवेदितवती, साऽप्युपक्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्- पुत्रिके ! यद् रोचते तत् तदीयगृहे कुरु त्वम्, न तवाऽवचनकरो भर्ता भविष्यतीति । द्वितीयाऽपि तथैव शिक्षिता, तयाऽपि च तथैव स्वभर्ता शिरसि प्रहतः, केवलमसौ नैतच्छिष्टानां युज्यते' इत्यादि किञ्चित् क्षणमेकं झषित्वा उपरत:, तस्मिंश्च तया मातुर्निवेदिते मात्रा प्रोक्तम् - वत्से ! त्वमपि यथेष्टं तद्गृहे विजृम्भस्व, केवलं त्वद्भर्ता क्षणमेकं झषित्वा स्थास्यति । एवं च तृतीययाऽपि प्रहत:, केवलममुना समुच्छलदतुच्छकोपेन ‘नूनमकुलीना त्वम् ?, यैवं शिष्टजनानुचितं विचेष्टसे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org