________________
श्रीअनुयोगद्वारसूत्रम् [सू०८५-८६]
६५
(सू० ८५) से किं तं खेत्तोवक्कमे ? खेत्तोवक्कमे - जण्णं हल - कुलियादीहिं खेत्ताई वक्कामिज्जति । सेतं खेत्तोवक्कमे ।
( सू० ८६ ) से किं तं कालोवक्कमे ? कालोवक्कमे कालस्सोवक्कमणं कीरति । सेतं कालोवक्कमे ।
Jain Education International
-
सेतमित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः ।
I
इतः क्षेत्रोपक्रममभिधित्सुराह से किं तमित्यादि । क्षेत्रस्योपक्रमः परिकर्म - विनाशकरणं क्षेत्रोपक्रमः, स क इत्याह- खेत्तोवक्कमे जं णं हल - -कुलियादीहिं खेत्ताइं उवक्कामिज्जति त्ति, तत्र हलं प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं मयिकाल्लघुतरं काष्ठं तृणादिच्छेदार्थं यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद् गजेन्द्रबन्धनादिभिः क्षेत्राण्युपक्रम्यन्ते विनाश्यन्ते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु हि क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह- यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्म-विनाशौ, इत्थं च द्रव्योपक्रम एवायम्, कथं क्षेत्रोपक्रमः ? इति, सत्यम्, किन्तु क्षेत्रमाकाशं तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्यते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति इति, उक्तं च
खित्तमरूवं निच्वं न तस्स परिकम्मणं न य विणासो ।
आहेयगयवसेण उ करणविणासोवयारोऽत्थ || १ || (विशेषावश्यकभा० ९२४)
इत्यादि । सेत्तमित्यादि निगमनम् ।
इदानीं कालोपक्रमः । तत्र कालो द्रव्यपर्याय एव, द्रव्य - पर्यायौ च मेचकमणिवत् संवलितरूपाविति द्रव्योपक्रमाभिधाने कालोपक्रम उक्त एव भवति, अथवा समयावलियमुहुत्तेत्यादिरूपस्य कालस्य स्वतन्त्रमेवोपक्रममभिधित्सुराह सूत्रकारः - से किं तमित्यादि । कालस्योपक्रमः कालोपक्रमः, सक इत्याह- जं णं नालिआईहिं कालो उवक्कमिज्जड़ त्ति, णमिति वाक्यालङ्कारे, यदिह नाडिकादिभिरादिशब्दात् शङ्कुच्छायानक्षत्रचारादिपरिग्रहस्तैः काल उपक्रम्यते, स कालोपक्रम इति शेष:, तत्र नाडिका ताम्रादिमयघटिका, तया, शङ्कुच्छायादिना वा एतावान् पौरुष्यादिकालोऽतिक्रान्त इति यत् परिज्ञानं भवति स परिकर्मणि कालोपक्रम:, यथावत् परिज्ञानमेव हि तस्येह परिकर्म, यत्तु नक्षत्रादिचारै: कालस्य विनाशनं स वस्तुनाशे कालोपक्रमः, तथाहि - अनेन ग्रह-नक्षत्रादिचारेण विनाशितः कालः, न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति वक्तारो भवन्त्येवेति, उक्तं च पूज्यै:
For Private & Personal Use Only
जं णं नालियादीहिं
www.jainelibrary.org