________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ८१ ) से किं तं चउप्पए उवक्कमे ? चउप्पए उवक्कमे चउप्पयाणं आसाणं हत्थीणं इच्चाइ | से तं चप्प उवक्कमे ।
(सू० ८२) से किं तं अपए उवक्कमे ? अपए उवक्कमे अपयाणं अंबाणं अंबाडगाणं इच्चा | सेतं अपए उवक्कमे । सेतं सचित्तदव्वोवक्कमे ।
(सू० ८३) से किं तं अचित्तदव्वोवक्कमे ? अचित्तदव्वोवक्कमे खंडाईणं गुडादीनं मत्स्यंडीणं । सेतं अचित्तदव्वोवक्कमे ।
६४
(सू० ८४ ) से किं तं मीसए दव्वोवक्कमे ? मीसए दव्वोवक्कमे से चेव थासग - आयंसगाइमंडिते आसादी । सेतं मीसए दव्वोवक्कमे । से तं जाणयसरीरभवियसरीरवइरित्ते दव्वोवक्कमे । सेतं नोआगमओ दव्वोवक्कमे । सेतं दव्वोवक्कमे ।
-
अथ चतुष्पदानां द्विविधमप्युपक्रमं बिभणिषुराह से किं तमित्यादि । अत्र निर्वचनम् चउप्पयाणं आसाणं हत्थीणमित्यादि । अश्वादय: प्रतीता एव, एतेषां शिक्षागुणविशेषकरणं परिकर्मणि, खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, 'सचित्तद्रव्योपक्रमः' इतीहापि वाक्यशेषः । सेत्तमित्यादि निगमनम् ।
-
अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह से किं तमित्यादि । अत्र निर्वचनम् - अपयाणं अंबाणं अंबाडगाणमित्यादि । इहाऽऽम्रादयो देशप्रतीता एव, नवरं चाराणं तियेषु चाकुलि उत्पद्यन्ते ते चारवृक्षाः | आम्रादिशब्दैश्च वृक्षास्तत्फलानि वा गृह्यन्ते । तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रक्षेप- कोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि, शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे 'सचित्तद्रव्योपक्रम:' इत्यत्रापि वाक्यशेष: सेत्तमित्यादि निगमनद्वयम् ।
अथाचित्तद्रव्योपक्रमं विवक्षुराह से किं तं अचित्तदव्वोवक्कमे इत्यादि । खण्डादयः प्रतीता एव, नवरं मत्स्यण्डी खण्डशर्करा, एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मणि, सर्वथा विनाशकरणं वस्तुनाशे, 'अचित्तद्रव्योपक्रम:' इति शेषः । सेत्तमित्यादि निगमनम् ।
-
अथ मिश्रद्रव्योपक्रममाह- से किं तमित्यादि । स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणम्, आदिशब्दात् कुङ्कुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुङ्कुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्गादिभिर्विनाशो वा 'मिश्रद्रव्योपक्रम:' इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते तेऽप्युक्तानुसारेण भावनीयाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org