________________
श्री अनुयोगद्वारसूत्रम् [सू०७७-८० ]
( सू० ७७) नाम - ठवणाओ गयाओ ।
(सू० ७८) से किं तं दव्वोवक्कमे ? दव्वोवक्कमे दुविहे पण्णत्ते । तंजहा- आगमओ १, नोआगमओ य २, जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते । तंजा सचित्ते १, अचित् २, मीस ३ ।
( सू० ७९ ) से किं तं सचित्तदव्वोवक्कमे ? सचित्तदव्वोवक्कमे तिविहे पण्णत्ते । तंजा - दुपाणं १, चउप्पयाणं २, अपयाणं ३ । एक्केक्के दुविहे - परिकम्मे य १, Sagar २ ।
(सू० ८०) से किं तं दुपए उवक्कमे ? दुपए उवक्कमे दुपयाणं नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं खाणं तूणइल्लाणं तुंबवीणियाणं कायाणं मागहाणं । सेतं 'दुपए उक् I
६३
लासगाणं ति लासका ये रासकान् गायन्ति तेषाम्, जयशब्दप्रयोक्तृणां वा भण्डानामित्यर्थः । आइक्खगाणं ति ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषाम् । लंखाणं ति ये महावंशाग्रमारोहन्ति ते लङ्खास्तेषाम् । मंखाणं ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषाम् । तूणइल्लाणं ति तूणाभिधानवाद्यविशेषवताम् । तुंबवीणियाणंति वीणावादकानाम् । काताणंति कावडिवाहकानाम् । मागहाणं ति मङ्गलपाठकानाम् । एषां सर्वेषामपि यद् घृताद्युपयोगेन बल - वर्णादिकरणं कर्णस्कन्धवर्द्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रम:, यस्तु खड्गादिभिरेषां नाश एवोपक्रम्यते संपाद्यते स वस्तुनाशे 'सचित्तद्रव्योपक्रम:' इति वाक्यशेषः । अन्ये तु शास्त्र - गन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्योपक्रम इति व्याचक्षते, एतच्चायुक्तम्, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते २२तर्ह्येतदप्यदुष्टमेवेति । सेतमित्यादि निगमनम् ।
२२. तर्ह्येतदप्यदुष्टमेवेति । तथा च यथा नृत्यादिकलासम्पादनमत्र परिकर्मणि द्रव्योपक्रमत्वेन सम्मतं, तथा नटादेरनाशेऽपि मद्यपानादिद्वारा नृत्यादिकलाविनाशकरणमपि वस्तुनाशे सचित्तद्रव्योपक्रमत्वेन शक्यव्याख्यानमेव । नन्वत्र व्याख्याने नटादेः खड्गादिना विनाशो यदि न कृतस्तर्हि वस्तुविनाशाभाव एवेति चेत् ? न नृत्यादिकलानाशे तस्य मनुष्यत्वादिनैवाऽनाशः, नटत्वेन तु नाशो भवत्येवेति न दोषः । मनुष्यत्वादिना नाशाभावमात्रादेवानाशविवक्षणे तु, कृतेऽपि खड्गादिप्रहारे जीवत्वादिना तु नाशाभावादेव नाशे द्रव्योपक्रमस्य वार्ताया एव नाशः स्यादिति । न चैवं व्याख्या काचिदपूर्वैव, गजेन्द्रमूत्रपुरीषादिना दग्धत्वेन बीजवपनादियोग्यताया नाशस्यैव वस्तुनाशे क्षेत्रोपक्रमत्वेनाग्रे व्याख्यास्यमानत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org