________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
( सू० ७६ ) से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते । तंजहा - नामोवक्कमे १, ठवणोवक्कमे २, Gaalaक्कमे ३, खेत्तोवक्कमे ४, कालवक्कमे ५,
भावोवक्कमे
६ ।
६२
नामादिभेदैर्निक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयैर्विचार्यते नान्य तदनन्तरं नय इति यथोक्तक्रमेणोपन्यासः फलवानिति ।
तत्रोपक्रमो द्विधा - शास्त्रीय इतरश्च लोकप्रसिद्ध: । तत्रेतराभिधित्सया प्राह से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते इत्यादि । अत्र क्वचिदेवं दृश्यते - उवक्कमे दुविहे पण्णत्ते इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, 'अहवा उवक्कमे छव्विहे पण्णत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात् । यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात् से किं तं सत्थोवक्कमे ? सत्थोवक्कमे छव्विहे पण्णत्ते इत्यादि, न चैवम्, तस्मान्नेह सूत्रे द्वैविध्यप्रतिज्ञा, किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण ।
प्रकृतं प्रस्तुमः - तत्र नाम-स्थापनोपक्रमव्याख्या नाम-स्थापनावश्यकव्याख्यानुसारेण कर्तव्या । द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् से किं तं जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे ? इत्यादि । तत्र द्रव्यस्य नटादेरुपक्रमणं कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायविशेषतः संयोजनं द्रव्योपक्रमः, अथवा द्रव्येण घृतादिना द्रव्ये भूम्यादौ द्रव्याद् घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथा- सचित्तद्रव्यविषय: सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयस्तु मिश्रः, द्रव्योपक्रम इति वर्तते । तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा द्विपदानां नट-नर्तकादीनाम्, चतुष्पदानाम् अश्वहस्त्यादीनाम्, अपदानाम् आम्रादीनाम्, तत्रैकैकः पुनरपि द्विधा - परिकर्मणि वस्तुविनाशे च । तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषैरुपक्रम्यते तदा वस्तुनाशे वस्तुनाशविषयो द्रव्योपक्रमः । तत्र द्विपदानां नट-नर्तकादीनां घृताद्युपयोगेन बल-वर्णादिकरणं कर्ण-स्कन्धवर्धनादिक्रिया वा परिकर्मणि सचित्तद्रव्योपक्रमः । द्विविधमप्येतमुपक्रमं बिभणिषुराह से किं तमित्यादि । अत्र निर्वचनम् - दुपाणं नडाणमित्यादि, तत्र नाटकानां नाटयितारो नटास्तेषाम् । नट्टाणं ति नृत्यविधायिनो नर्तकास्तेषाम्, जल्लाणं ति जल्ला वस्त्राखेलकास्तेषाम्, राजस्तोत्रपाठकानामित्यन्ये । मल्लाणं ति मल्लाः प्रतीतास्तेषाम् । मुट्ठियाणं ति मौष्टिका ये मुष्टिभि: प्रहरन्ति मल्लविशेषा एव तेषाम् । वेलंबगाणं ति विडम्बका विदूषका नानावेषादिकारिण इत्यर्थ:, तेषाम्, कहगाणं ति कथकानां प्रतीतानाम् । पवगाणं ति प्लवका ये उत्प्लवन्ते गर्तादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org