________________
श्रीअनुयोगद्वारसूत्रम् [सू०७५]
(सू० ७५) तत्थ पढमज्झयणं सामाइयं । तस्स णं इमे चत्तारि अणुओगद्दारा भवंति । तंजहा- उवक्कमे १, णिक्खेवे २, अणुगमे ३, णए ४।।
तत्र बोधादेरधिकमयनं प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थम् । सामायिकमित्यत्र य: सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः, तस्याऽऽय: प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्ति: समाय:, समो हि प्रतिक्षणमपूर्वैः ज्ञान-दर्शन-चरण-पर्यायैर्भवाटवीभ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभि: संयुज्यते । समाय: प्रयोजनमस्याध्ययनस्य ज्ञान-क्रियासमुदायरूपस्येति सामायिकम्, समाय एव वा सामायिकम्, तस्य सामायिकस्य, णमिति वाक्यालङ्कारे, इमे त्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति । तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्य, अनुयोगार्थं व्याख्यार्थं द्वाराण्यनुयोगद्वाराणि । ___ अत्र नगरदृष्टान्तं वर्णयन्त्याचार्या: - यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोपायाभावतोऽनधिगमनीयत्वात् । कृतैक-द्विकादिद्वारमपि दुरधिगम कार्यातिपत्तये च भवति । चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च संपद्यते । एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्यात्, एकादिद्वारानुगतमपि दुरधिगमं भवेत्, सप्रभेदचतुरानुगतं तु सुखाधिगमं भवति, अतः फलवाँस्तदधिगमार्थो द्वारोपन्यासः ।
कानि पुनस्तानीति तदर्शनार्थमाह- तद्यथेत्यादि । तत्रोपक्रमणं दूरस्थस्य वस्तुनस्तै: तै: प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रम:, उपक्रान्तं हि उपक्रमान्तर्गतभेदैविचारितं हि निक्षिप्यते, नान्यथेति भावः । उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरुवागयोगेनेत्युपक्रम:, अथवा उपक्रम्यते अस्मिन् शिष्यश्रवणभावे सतीत्युपक्रम:, अथवा उपक्रम्यते अस्माद्विनीतविनेयविनयादित्युपक्रम:, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः । तदेवं करणाऽधिकरणाऽपादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ता: । यदि त्वेकोऽप्यन्यतरोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः ।
एवं निक्षेपणं शास्त्रादेर्नाम-स्थापनादिभेदैर्व्यसनं व्यवस्थापन निक्षेपः, निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिन्नस्मादिति वा निक्षेप:, वाच्यार्थविवक्षा तथैव।
एवमनुगमनं सूत्रस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव ।
एवं नयनं नय:, नीयते परिच्छिद्यते अनेनास्मिन्नस्मादिति वा नयः, सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः ।
अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्त:,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org