________________
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ७४) आवस्सगस्स एसो पिंडत्थो वण्णितो समासेणं ।
एत्तो एक्केक्कं पुण अज्झयणं कित्तइस्सामि ॥७॥ तंजहा- सामाइयं १, चउवीसत्थओ २, वंदणं ३, पडिक्कमणं ४, काउस्सग्गो ५, पच्चक्खाणं ६ । त्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः । इदमुक्तं भवति - चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते ५ । गुणधारणा चेव त्ति गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकार: । अयमत्र भावार्थ: - मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते ६ । चशब्दादन्येऽप्यपान्तरालार्थाधिकारा विज्ञेया:, एवकारोऽवधारण इति गाथार्थः ।
तदेवं यदादौ (सू० ७) प्रतिज्ञातम् आवश्यकं निक्षेप्स्यामीत्यादि, तत्रावश्यक- श्रुतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि । साम्प्रतं त्वध्ययनपदमवसरायातमपि न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वात्, अत्रापि भणने च ग्रन्थगौरवापत्तेरिति ।
इदानीमावश्यकस्य यद् व्याख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह- आवस्सयस्स गाहा । व्याख्या- आवश्यकस्य आवश्यकपदाभिधेयस्य शास्त्रस्य एषः पूर्वोक्तप्रकार: पिण्डार्थ: समुदायार्थो वर्णित: कथित: समासेन संक्षेपेण । इदमत्र हृदयम्- आवश्यकश्रुतस्कन्ध इति शास्त्रनाम पूर्वं व्याख्यातम्, तच्च सान्वर्थम्, ततश्च यथा सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षण: समुदायार्थः प्रतिपादितो भवति, एवमत्राप्यावश्यकश्रुतस्कन्ध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति । इत ऊर्ध्वं पुनरेकैकमध्ययनं कीर्तयिष्यामि भणिष्यामीति गाथार्थः।
तत्कीर्तनार्थमेवाऽऽह- तद्यथा- सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्ग: प्रत्याख्यानम् । तत्र तेषु अनन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये प्रथमम् आद्यमध्ययनं सामायिकम्, आधुपन्यासश्चास्य नि:शेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च
सामायिकं गुणानामाधार: खमिव सर्वभावानाम् । न हि सामयिकहीनाश्चरणादिगुणान्विता येन ।।१।। तस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीर-मानसानेकदुःखनाशस्य मोक्षस्य ।।२।। ()
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org